________________
विवाहप्रकरणम् ।
११९
1
1
चैव द्वादशे भास्करे स्थिते । वरः पंचत्वमाप्नोति कृते पाणिग्रहोत्सव इति । यत उक्तम् । षडब्दमध्ये नोद्वाह्या कन्या वर्षद्वयं ततः । सोमो भुंक्तेऽथ गंधर्वस्ततः पश्चाद्भुताशन इति । व्यासः । अष्टवर्षा भवेद्गौरी नववर्षा च रोहिणी । दशवर्षा भवेत्कन्या अत ऊर्ध्वं रजस्वला । वात्स्यः । द्वादशे वृषली स्मृतेति । गौरीं ददद्ब्रह्मलोकं सावित्रं रोहिणीं ददत् । कन्यां ददत्स्वर्गलोकमतः परमसद्गतिम् । प्राप्नोतीति शेषः । अत्र युग्मेऽब्दे जन्मतः स्त्रीणां शुभदं पाणिपीडनमित्युक्तत्वात् पुनर्नववर्षाया रोहिण्या अयुग्मवर्षत्वाद्विवाहनिषेधः प्राप्नोतीत्यत्र व्यवस्थामाह श्रीपतिः । मासत्रयादूर्ध्वमयुग्मवर्षे युग्मे तु मासत्रयमेव यावत् । विवाहशुद्धिं प्रवदंति संतो वात्स्यादयो गर्गवराहमुख्या इत्यतो नववर्षस्यायुग्मत्वनिषेधोऽष्टवर्षानंतरं मासत्रयपर्यंतमेव । तदनंतरं तु सुखेन विवाह इत्यविरोधः । एवं च षष्ठवर्षानंतरं जन्मतो विषमवर्षीयमासत्रयानंतरं नव मासाः शुभाः । समवर्षे आद्यमासत्रयं चेति गर्भतो युग्मवर्ष इति निष्कृष्टोऽर्थः । उभयोरिति । स्त्रीपुंसयोश्चंद्र विशुद्धितो विवाहः शुभः । उभयोश्चंद्रबलमावश्यकमित्यर्थः । शुद्धिर्गीचरेणाभिहिता । गोचरबलाभावे अष्टकवर्गादिवलं ग्राह्यमित्याह नारदः । गोचरं वेधजं चाष्टवर्गजं रूपजं बलम् । यथोत्तरं बलाधिक्यं स्थूलं गोचरमार्गजमिति । व्यासः । कन्याया ग्रहशुद्धिश्र दशवर्षावधिः स्मृता । दशवर्षव्यतिक्रांता कन्या शुद्धिविवर्जिता । तस्यास्तारेंदुलमानां शुद्ध पाणिग्रहो मत इति ॥ १२ ॥
अथ विहितान्मासान् द्रुतविलंबितेनाह
मिथुन कुंभमृगालिवृषाजगे मिथुनगेऽपि रवौ त्रिलवे शुचेः ॥ अलिमृगाजगते करपीडनं भवति कार्तिकपौष मधुष्वपि ॥ १३ ॥
मिथुनेति ॥ अलिर्वृश्चिकः एतद्राशिगते खौ सति तत्रापि मिथुनस्थिते रवौ सति शुचेः आषाढस्य त्रिलवे तृतीयांशे आषाढशुद्ध प्रतिपदमारभ्य दशमीपर्यंतं करपीडनं विवाहो भवति अर्थादितरराशिगे सूर्ये आषाढशुद्धदशम्यनंतरं मिथुनराशिगेऽर्केऽपि हरिशयने च विवाहो न स्यात् । अलीति । एतद्वाशिगे सूर्ये कार्तिकपौषमधुष्वपि करपीडनं स्यात् । वृश्चिके कार्तिके मकरे पौषे मेषे चैत्रेऽपीत्यर्थः । इदं तु सौरमासग्रहिलानां मतम् । श्रीधरोऽपि । पौषेऽपि कुर्यान्मकरस्थितेऽर्के चैत्रे भवेन्मेषगते यदा स्यात् । प्रशस्तमाषाढकृतं विवाहं वदंति गर्गा मिथुनस्थितेऽर्के इति । ये तु चांद्रमासानेवाहुर्नारदादयः माघफाल्गुनवैशाखज्येष्ठमासाः शुभप्रदाः । मध्यमः कार्तिको मार्गशीर्षो वै निंदिताः परे इति । तेषां म फाल्गुनो विहित इति तत्र मीन संक्रमणसद्भावेऽपि शुभः चैत्रो निषिद्ध इति मेष संक्रमणसद्भावेऽप्यशुभः । तदुक्तं वृंदावने । झषो न निद्यो यदि फाल्गुने स्यादजस्तु वैशाखगतो न निंद्यः । मध्वाश्रितौ द्वावपि वर्जनीयाविति । अजस्तु वैशाखगतो न निंद्य इति तु निर्मू
Aho! Shrutgyanam