________________
११८
मुहूर्तचिंतामणी
1
भयोगाः शौनकादिभ्यो ज्ञेयाः । विवाहवृंदावने उपश्रुतिरप्युक्ता । आरोप्याक्षतपूरिते गणपतिं प्रस्थादिपात्रे शनैः संमार्जन्यधिवेष्टिते युवतयस्तिस्त्रः सकन्या निशि । निर्याता रजकादिवेश्मसु करे कृत्वा तमभ्यर्चितं यां वाचं शृणुयुस्तदर्थसदृशी लोके किलोपश्रुतिः । तन्मंत्रश्च । उपश्रुति महादेवि चांडालगृहवासिनि । यथार्थ ब्रूहि देवि त्वं शक्रराज्यप्रवर्धिनि॥९॥ अथ कन्यावरणमुहूर्ते मत्तमयूरच्छंदसाह
विश्वस्वाती वैष्णवपूर्वात्रय मैत्रे taraaf करपीडोचितऋक्षैः ॥ वस्त्रालंकारादिसमेतैः फलपुष्पैः संतोष्यादौ स्यादनु कन्यावरणं हि ॥ १० ॥
विश्वस्वातीति ॥ उत्तराषाढादिनक्षत्रैरुपलक्षिते काले वस्त्रालंकारादिशब्देन खाद्यादिमधुरवस्तुभिः सहितैः फलपुष्पैः आदौ कन्यां संतोष्य तोषयित्वाऽनु पश्चात्कन्यावरणं हि निश्चयेन स्यात् । कन्यावरयोर्लक्षणानि सामुद्रिकाध्यायादवगंतव्यानि ॥ १० ॥ अथ वरवरणमुहूर्तमाह
धरणिदेवोऽथवा कन्यकासोदरः
शुभदिने गीतवाद्यादिभिः संयुतः ॥ वरवृतिं वस्त्रयज्ञोपवीतादिना ध्रुवयुतैर्व हि पूर्वात्रयैराचरेत् ॥ ११ ॥
धरणिदेव इति ॥ धरणिदेवो ब्राह्मणः पुरोहितादिः । चंडेश्वरः । पूर्वात्रितयमाग्नेयमुतत्रितयं तथा । रोहिणी तत्र वरणभगणः शस्यते सदा ॥ उपवीतं फलं पुष्पं वासांसि विविधानि च । देयं वराय वरणे कन्याभ्रात्रा द्विजेन वेति ॥ ११ ॥
अथ कन्याविवाहकालं ग्रहशुद्धिं च वसंतमालिकाच्छंदसाहगुरुशुद्धिवशेन कन्यकानां समवर्षेषु षडब्दकोपरिष्टात् ॥ रविशुद्धिवशाच्छुभो नराणामुभयोश्चंद्र विशुद्धितो विवाहः ॥ १२ ॥
गुरुशुद्धिवशेनेति ॥ कन्यानां विवाहः षडब्दकोपरिष्टात् षडर्षातिक्रमानंतरं समवर्षेषु युग्मवर्षेषु सत्सु बटुकन्याजन्मराशेरित्याद्युक्त गुरुशुद्धौ सत्यां विवाहः शुभः । अर्थात्पुरुषाणां विषमवर्षेषु गोचरप्रकरणोक्तरविशुद्धौ सत्यां विवाहः शुभः । राजमार्तंडः । तृतीयः षष्ठगश्चैव दशमैकादशस्थितः । रविः शुद्धो निगदितो वरस्यैव करग्रहे ॥ यन्मस्थेच द्वितीयस्थे पंचमे सप्तमेऽपि वा । नवमे भास्करे पूजां कुर्यात्पाणिग्रहोत्सवे ॥ चतुर्थे वाष्टमे
Aho! Shrutgyanam