________________
विवाहप्रकरणम् ।
११७
सौवर्णी निर्मितां शक्त्या तुभ्यं संप्रददे द्विज । अनघा त्वहमस्मीति त्रिवारं प्रवदेदिति ॥ एवमस्त्विति विप्राशीर्गृहीत्वा स्वगृहं विशेत् । ततो वैवाहिकं तातो विधिं कुर्यान्मृगीदृशाम् । इति प्रतिमादानविधिः । एवं घटादिभिः सह विवाहं एकांते विधाय पश्चाद्वादित्रघोषपुर:सरं पित्रादिः कन्यामायुष्मते वराय दद्यात् । अत्र पुनर्विवाहात्पुनर्भूत्वदोषो न भवति । यतो विधानखंडे । स्वर्गांवुपिप्पलानां च प्रतिमाविष्णुरूपिणी । तया सह विवाहे च पुनर्भूत्वं न जायत इत्युक्तत्वात् । चकारात् घटस्यापि । लक्ष्मीरूपा सदा कन्या हरिरूपं सदा जलम् । हरेर्दत्तं च यद्दानं दातुः पापहरं सदा । लक्ष्मीनारायणप्रीत्यै या दत्ता कन्यका बुधैः ॥ तारयेत्सकलं दातुः कुलं पूर्वापरं सदा । चंद्रवह्नचंबुगंधर्वशिवसोमस्मरा इमे ॥ पतयः कन्यकानां च बाल्यात्संति सदैव ते ॥ तदुद्वाहविधिर्यत्नात्कृतो नो जनयेदधम् । यथालिभुक्तकमलं देवानां पूजनाय ॥ अ भवति सर्वत्र तथा कन्या नृणां भवेत् । श्रुतावपि सोमादिभिः सह विवाहोऽभिहितः । सोमः प्रथमो विविदे गंधर्वो विविद उत्तरः । तृतीयो अग्निष्टे पतिस्तुरीयस्ते मनुष्यजा इति । अतो दैवतभोग्यानां कन्यानां पुरुषविवाहे यथा न दोषः पुनर्भूभवस्तथात्रापि । अत एव । मंथन्या भास्करो यत्नात्कृतवान् दुहितुर्विधिम् । रेणुकोऽपि स्वकन्यायास्तरूद्वाहं चकार स इति विधानखंडेऽभिधानात् । अत एव । पित्रा मात्रा तथा भ्रात्रा दत्ता या तोयधारया । विप्रानिसुहृदां साक्ष्यं कृत्वा सोद्वाहिता भवेदिति का - त्यायनादिपरिभाषितत्वादेकदा कन्यापुरुषविवाहं निर्वर्त्य पुनर्द्वितीयपुरुषविवाहे जाते सा पुनर्भूरेवेत्यलम् ॥ ७ ॥
अथान्यत्स्रग्विण्याह
प्रश्नलग्नक्षणे यादृशापत्ययुक् स्वेच्छया कामिनी तत्र चेदाव्रजेत् ॥ कन्यका वा सुतो वा तदा पंडितैस्तादृशापत्यमस्या विनिर्दिश्यते ८ प्रश्न लग्नक्षण इति ॥ तत्र ज्योतिर्वित्समीपे यादृशापत्ययुक् । यादृशापत्यत्वमेव विवृणोति कन्यकेत्यादि । शेषं स्पष्टम् ॥ ८ ॥
अथ सामान्यतो निमित्तवशेन शुभाशुभप्रश्नं स्वग्विण्याह
शंखभेरीविपंची रवैमंगलं जायते वैपरीत्यं तदा लक्षयेत् ॥ वायसो वा खरः श्वा मृगालोऽपि वा प्रश्नलग्नक्षणे रौति नादं यदि ९
शंखभेरीति ॥ विपंची वीणा एतेषां रवैः प्रश्नलने श्रुतैमंगलं जायते । उपलक्षणत्वान्मनोह्लादितुरगगजच्छत्रादिसान्निध्येऽपि शुभम् । अथाशुभयोगाः । वैपरीत्यमिति । वायसः काकः खरो गर्दभः श्वा कुकुर : सृगालः प्रसिद्धः । यदि प्रश्नलक्षणे वायसादिर्नादं शब्द करोति तदा वैपरीत्यमशुभं लक्षयेत् । उपलक्षणादुलूकोष्ट्रमहिषनादोऽप्यशुभः । अन्ये शु
Aho! Shrutgyanam