________________
विवाहप्रकरणम् ।
१२९ त्वेन सबलत्वं सखिता परस्परमैत्री ते उभे चेद्भवतः तथा नाड्यृक्षशुद्धौ नाडीनक्षत्रयो।धाभावे सति तथा ताराशुद्धिवशे च सति राशिवशताभावे च राशिवश्यत्वे च सति दुष्टभकूटकेऽपि विवाहः शुभो निरुक्तः । उक्तं च जगन्मोहने वसिष्ठेन । राशिनाथे विरुद्धेऽपि सबले वंशकाधिपौ । तन्मैत्रेऽपि च कर्तव्यं दंपत्योः सुखमिच्छतेति । अन्यच्च । तस्मिन्नेव प्रकरणे वसिष्ठवाक्यम् । राशिनाथे विरुद्धेऽपि मित्रत्वे चांशनाथयोः । विवाहं कारयेद्धीमान् दंपत्योः सौख्यवर्धनमिति । अत्रैकस्मिन्नेव प्रकरणे वसिष्ठवाक्ययोरन्यवाक्यानर्थक्यापत्तेरुपसंहारन्यायो न प्रवर्तते । तेनावश्यं वाक्यद्वयस्य भिन्नार्थत्वं वाच्यम् । तत्र कस्य कोऽर्थ इति संदेहे न्यूनार्थं द्वितीयं वचनं केवलग्रहवैरापवादकं तुल्यबलत्वात् । अंशनाथसबलत्वाभिधायकं प्रथमवचनमुभयविरोधस्य ग्रहवैरराशिवैररूपस्यापवादकम् । तेन राशिनाथे विरुद्धेऽपीत्यत्र राशी च नाथौ च एतेषां समाहारो राशिनाथं तस्मिन राशिनाथे । तथा चायमर्थः । राशी विरुद्धौ षट्काष्टकादिना नाथौ विरुद्धौ कयोरित्याकांक्षायां ययोः षट्काष्टकादिविचारस्तयोरेव सन्निहितत्वात् ग्रहणं तयो राश्यो थौ विरुद्धौ मित्राणि द्युमणेरित्यादिना परस्परं शत्रू स्यातां तद्राशिनवांशवामिनोः सबलत्वे च समुच्चिते स विवाहः शुभः । नन्वस्मिन्वाक्ये क्लिष्टव्याख्याने किं मानम् । उच्यते । अंशनाथसबलत्वस्याधिककरणमेव तच्च युगपदुत्पन्नस्य दोषद्वैविध्यस्य राशिविरोधग्रहविरोधरूपस्य परिहाररूपमित्यवगम्यते। अस्मिन्नपि पक्षे नाडीशुद्धिस्ताराशुद्धिः राशिवशता चापेक्षितेति ॥ ३२ ॥
अथदुष्टानां गणकूटभकूटग्रहकूटानां परिहारं शालिन्याहमैत्र्यां राशिस्वामिनोरंशनाथद्वंद्वस्यापि स्याद्गणानां न दोषः ॥ खेटारित्वं नाशयेत्सद्भकूटं खेटप्रीतिश्चापि दुष्टं भकूटम् ॥ ३३ ॥
मैन्यामिति ॥ स्त्रीपुरुषयो राशिस्वामिनोमयां सत्यां तथा राशिनवांशनाथयोईद्वस्यापि मैत्र्यां सत्यां दुष्टगुणानां दोषो न स्यात् । अत्रिः । राशीशयोः सुहृद्भावे मित्रत्वे चांशनाथयोः । गणादिदोष्टयेऽप्युदाहः पुत्रपौत्रप्रवर्धनः । अथ सद्भकूटं तृतीयैकादशादिकं खेटारित्वं ग्रहवैरकृतं दोषं नाशयेत् । एवमेव खेटप्रीतिः ग्रहमैत्री चापि दुष्टं भकूटं पडष्टादिकं नाशयेत् । असद्भकूटे गुणाभावः । भकूटदोषापवादे चत्वारो गुणा इति ॥३३॥ अथ नाडीकूटं स्त्रग्धरयाहज्येष्ठारौद्रार्यमांशपतिभयुगयुगं दास्रभं चैकनाडी पुष्येंदुत्वाष्ट्रमित्रांतकवसुजलभं योनिबुध्ये च मध्या ॥ वाय्वग्निव्यालविश्वोडुयुगयुगमथो पौष्णभं चापरा स्याइंपत्योरेकनाड्यां परिणयनमसन्मध्यनाड्यां हि मृत्युः ॥ ३४॥
Aho ! Shrutgyanam