________________
विवाहप्रकरणम् । अशुभखचरवीक्षितोऽरिरंधे
भवति विवाहविनाशकारकोऽयम् ॥ ६॥ यदीति ॥ सितातिरिक्तपक्षे कृष्णपक्षे यदि चंद्रः समराशिषु वृषकर्कादिषु गतः सन् तनुगृहतः प्रश्नलग्नादरिरंध्रे षष्ठेऽष्टमे वा स्थाने स्थितः पापग्रहावलोकितो भवति तदायं योगो विवाहस्य विनाशकारको भवति ॥ ६ ॥
एवं प्रश्नलग्नाद्वैधव्यादियोगमभिधायेदानी जन्मलग्नादावपि बालवैधव्ययोगविचारमतिदिशन् तत्परिहारं शार्दूलविक्रीडितेनाह
जन्मोत्थं च विलोक्य बालविधवायोगं विधाप्य व्रतं सावित्र्या उत पैप्पलं हि सुतया दयादिमां वा रहः॥ सल्लग्नेऽच्युतमूतिपिप्पलघटः कृत्वा विवाहं स्फुट दद्यात्तां चिरजीविनेऽत्र न भवेद्दोषः पुनर्भुभवः ॥७॥ जन्मोत्थमिति ॥ प्रश्नलग्नाद्यथा विधवायोगो विचारितस्तथा जन्मोत्थं जन्मलग्नोद्वं च बालविधवायोगं जातकशास्त्रात् । बाल्ये विधवा भौमे पतिसंत्यक्ता दिवाकरेऽस्तस्थे । सौरे पापैर्दष्टे कन्यैव जरां समुपयाति । तथा । लग्ने व्यये च पाताले जामित्रे चाष्टमे कुजे। कन्या भर्तृविनाशाय भर्ता कन्याविनाशक इत्याद्युक्तैर्बालविधवायोगं विचार्य वक्ष्यमाणं व्रतं वैधव्यपरिहारकरं कारयेदित्यन्वयः । तत्र वैधव्ययोगपरिहारः। यो यो भावः स्वामिदृष्टो युतो वा सौम्यैर्वा स्यात्तस्य तस्यास्ति वृद्धिरिति । सप्तमस्थानं स्वस्वामिसौम्येक्षितं चेद्भवति तदा भर्तृसुखं भवतीति । अन्ये स्त्रीणां महत्यरिष्टयोगे भर्तुश्च स्वल्पेऽरिष्टयोगे तत्परिहारमाहुः । अथापरिहार्ये वैधव्ययोगे प्रतीकारमाह-विधाप्येति । रह इति वक्ष्यमाणमिहापि योज्यम् । पित्रादिः सुतया कन्यया कृत्वा रह एकांते हि निश्चयेन सावित्र्या व्रतं विधाप्य पश्चादिमां कन्यां चिरजीविने वराय दद्यात् । तदुक्तं व्रतखंडे । सावित्र्यादिव्रतादीनि भक्त्या कुर्वति याः स्त्रियः । सौभाग्यं च सुहृत्त्वं च भवेत्तासां सुसंततिरिति । व्रतग्रहणप्रकारस्तत एवावगंतव्यः । पिप्पलव्रतं ज्ञानभास्करे । बलवद्विधवायोगे बाल्ये सति मृगीदृशाम् । पिता रहसि कुर्वीत तद्गं शास्त्रसंमतम् ॥ सुदिने शुभनक्षत्रे चंद्रताराबलान्विते । अवैधव्यकरैर्योगैर्लग्ने ग्रहबलान्विते ॥ व्रतारंभं प्रकुर्वीत बालवैधव्यनाशकम् । सुस्नातां चित्रवसनां कन्यां पितृगृहाबहिः ॥ नीत्वाश्वत्थशमीस्थाने यद्वा बदरिकाश्रमे । आलवालं प्रकुर्वीत विपुलं मृद कर्षितम् ॥ कुमार्थाचार्यनिर्दिष्टं कृत्वा संकल्पमादरात् । करकांबुप्रपूर्णेन सिंचनं प्रतिवासरम् ॥ चैत्रे वाश्विनमासे वा तृतीयाऽसितपक्षतः । यावत्कृष्णतृतीयान्या मासमेकं यथाविधि ॥ ब्राह्मणानां तथा स्त्रीणां पूजनं च समाचरेत् । तदाशि
Aho! Shrutgyanam