________________
मुहूर्तचिंतामणी
आदौ संपूज्येति ॥ अथशब्दो मंगलार्थः । आदौ गणकं ज्योतिर्विदं रत्नादिभिः मणिवस्त्रफलादिभिः संपूज्य ततः प्रष्टा कन्याया उद्वाहं गणकं वेदयेत् । गतिबुद्धीत्यादिना कर्तुः कमत्वम् । कीदृशं गणकं स्वस्थचित्तं अव्याकुलांतःकरणम् । स्वस्थे चित्ते बुद्धयः संभवंतीत्युक्तेः । उत्पलः । प्रष्टा मणिकनकयुतैः फलकुसुमै राशिचक्रमभ्यर्च्य । प्रच्छेद्यथाभिलषितं भक्त्या विनयान्वितः प्रश्नम् । दिगिति । यदि प्रश्न लग्नाद्दशमैकादशतृतीय सप्तमपंचमानामन्यतमे स्थाने स्थित चंद्रो जीवन गुरुणा दृष्टः सद्यः शीघ्रं परिणयनकरः स्यात् । वा अथवा । गोतुलेति । नृषतुलाकर्काणामन्यतमं प्रश्न लग्नं स्यात्तच्च शुभग्रहैर्युतमवलोकितं वा भवेच्चत्तत्परिणयनं विदध्यात् ॥ २ ॥ अथान्यं योगद्वयं द्रुतविलंबितेनाह
११४
farariant शशिभार्गवौ तनुगृहं बलिनौ यदि पश्यतः ॥ रचयतो वरलाभमिमौ यदा युगलभांशगतौ युवतिमौ ॥ ३ ॥ विषमभांशगताविति ॥ स्पष्टार्थम् ॥ ३ ॥
अथ प्रश्नलनाद्वैधव्य योगत्रयं शालिन्याह
षष्ठाष्टस्थः प्रश्नलग्नाद्यदीं दुर्लने क्रूरः सप्तमे वा कुजः स्यात् ॥ मूतविदुः सप्तमे तस्य भौमो रंडा सा स्यादष्टसंवत्सरेण ॥ ४ ॥ षष्ठाष्टस्थ इति ॥ चंद्रः प्रश्भलग्नात्पष्ठाष्टमस्थस्तदा कन्याष्टसंवत्सरेण विवाहवर्षा - ढुंडा भर्तृनाशिका स्यात् । अथवा लग्ने यः कश्चित्क्रूरग्रहः स्यात्ततः सप्तमे कुजो भवेत्तदाष्टवर्षमध्ये रंडा स्यात् । केचित्सप्तमेऽपि पापं एवं प्रभे निषेधति । कश्यपः । एको लग्नगतः पापो ह्यन्यः सप्तमराशिगः । आसप्तमाब्दान्मरणं पुरुषस्य न संशय इति तेषां मते सप्तमे वा खलः स्यादिति पाठः । अथवा मूर्ती लग्ने चंद्रस्तस्य सप्तमे भौमो भवेत् तदाऽष्टवर्षेण रंडा स्यात् ॥ ४ ॥
अथ प्रश्नलग्नात् कुलटामृतवत्सायोगं दोधकवृत्तेनाह
प्रश्नतनोर्यदि पापनभोगः पंचमगो रिपुदृष्टशरीरः ॥
नीचगतश्च तदा खलु कन्या सा कुलटा त्वथवा मृतवत्सा ॥ ५ ॥ प्रश्नतनोरिति ॥ स्पष्टार्थः । कश्यपः । स्वनीचगः शत्रुदृष्टः पापः पंचमगो यदा । मृतपुत्रां करोत्येव कुलटां वा न संशय इति ॥ ५ ॥ अथ विवाहभंगयोगं पुष्पिताग्रयाह
यदि भवति सितातिरिक्तपक्षे तनुगृहतः समराशिगः शशांकः ॥
Aho! Shrutgyanam