________________
विवाहप्रकरणम्। कुर्यात्समावर्तनकर्मपश्चाद्गोदानतः पाणिनिपीडनात् प्रागिति वसिष्ठोक्तेः । क्वचित् द्वितीयवर्षे तन्निषेध उक्तः । वधूप्रवेशं व्रतमोक्षणं च पुंसां पुनरपरिग्रहं च । नाब्दे द्वितीये विदधीत धीमान वदंति गर्गात्रिवसिष्ठमुख्या इति तन्निर्मूलत्वादुपेक्ष्यम् । परिकरोऽलंकार उत्सर्गापवादरूपः शेषं स्पष्टम् ॥ ६ ॥ इति श्रीदैवज्ञानंतसुत प्रमिताक्षरायां पंचमं संस्कारप्रकरणं समाप्तम् ॥ ५ ॥
॥ अथ विवाहप्रकरणं व्याख्यायते ॥ तत्रानाश्रमी न तिष्ठेतेत्यादिवचनात्समावर्तनानंतरं सर्वाश्रमाणामुपकारकत्वागृहस्थाश्रम एव मुख्यः । स च सुशीलरूयधीनः शीलं सुलग्नाधीनमित्यतो लग्मशुद्धिकथनं वसंततिलकया प्रतिजानीते ॥
॥ अथ विवाहप्रकरणं प्रारभ्यते ॥ भार्यात्रिवर्गकरणं शुभशीलयुक्ता शीलं शुभं भवति लग्नवशेन तस्याः ॥ तस्माद्विवाहसमयः परिचिंत्यते हि
तन्निघ्नतामुपगताः सुतशीलधर्माः॥१॥ भार्येति ॥ शुभं भादेरनुकूलं शीलं स्वभावो यस्याः सा त्रिवर्गस्य धर्मार्थकामरूपस्य करणमतिशयेन साधनम् । तस्याः सुलग्नवशेन शीलं शुभं भवति यतः सुतशीलधर्माः तन्निघ्नतां विवाहाधीनताम् । अधीनो निघ्न आयत्त इत्यमरोक्तेः । उपगताः प्राप्ताः अतो हीति निश्चयेन विवाहसमयः परिचिंत्यते विचार्यत इति । ननु जन्मकालीनग्रहजनितं शुभाशुभं दुरतिक्रममिति विवाहलग्नानर्थक्यमिति चेन्न । ज्योतिषस्मृत्या वेदितशुभसमयारब्धविधिजन्यापूर्वजनितशुभफलेन जन्मांतरीयदुर्दिष्टध्वंसो भवतीत्येवमर्थतया सार्थक्यात् अत एव सत्याचार्यः । शुभक्षणक्रियारंभजनिताः पूर्वसंभवाः । संपदः सर्वलोकानां ज्योतिस्तत्र प्रयोजनमिति सर्वत्र ज्ञेयम् ॥ १ ॥ अथ प्रश्नलग्नाद्विवाहयोगद्वयं स्रग्धरयाह
आदौ संपूज्य रत्नादिभिरथ गणकं वेदयेत्स्वस्थचित्तं कन्योद्वाहं दिगीशानलयविशिखे प्रश्नलग्नाद्यदीदुः॥ दृष्टो जीवेन सद्यः परिणयनकरो गोतुलाकर्कटाख्यं वा स्यात्प्रश्नस्य लग्नं शुभखचरयुतालोकितं तद्विदध्यात् ॥ २॥
१५
Aho ! Shrutgyanam