________________
११०
मुहूर्तचिंतामणी
हर्षयः ॥ मन्वादयो युगादयश्च पूर्वमुक्ताः । सिता ज्येष्ठे द्वितीया व आश्विने दशमी सिता चतुर्थी द्वादशी माघे एताः सोपपदाः स्मृताः ॥ नैमित्तिका अनध्यायास्तु स्मृत्यर्थसारे । निर्घातभूकंपोल्कानिपतनादिसर्वाद्भुतेष्वकालिकानध्यायाः । अग्न्युत्पाते वाऽकालदृष्टौ वा आर्द्रादिज्येष्ठांतात्कालादन्यत्राकालदृष्टिः सायंसंध्यागर्जने उदयांतोऽनध्यायः । अर्धरात्रादूर्ध्वं गर्जने अर्धरात्रे वाऽऽकालिकोऽनध्यायः । प्रातः संध्यागर्जने त्वहोरात्रामिति । कालं मर्यादी - कृत्येत्याकालम् । आकाले भव आकालिकः यस्मिन्काले निमित्तमुत्पन्नं तदारभ्य द्वितीयदिने तत्कालपर्यंतमित्यर्थः । स्मृतिरत्नावल्याम् । अनूराधार्क्षमारभ्य षोडशर्क्षेषु भास्करः । यावन्चरति वै तावदकालं मनुयो विदुरिति । कालदृष्टौ तु तत्कालमकाले तु त्रिरात्रकम् । अतिमात्राथवा दृष्टिर्नाधीयीत दिनत्रयम् । आपस्तंबः । उल्कायामग्न्युत्पाते च सर्वासां विधानामाकालिकमिति । मनुः । चौरैरुपलुते ग्रामे संग्रामे चाग्निकारिते। आकालिकमनध्यायं विद्यात्सर्वाद्भुतेषु चेति । अद्भुतेषु रुधिरादिवृष्टिषु । वसिष्ठः । उपलरुधिरप्रपाते त्र्यहमिति । स्मृत्यंतरे । विद्युद्गर्जितसृष्टीनां सन्निपातो यदा भवेत् । कालदृष्ट तु तत्कालमकाले तु त्रिरात्रकमित्यादि । नैमित्तिका अनध्याया यदा मेखलाबंधात्प्रागुत्पन्नास्तदा व्रतबंधो न कार्य एव । यदा तु मेखलाबंधादनंतरं ब्रह्मौदनपाकात् प्रागुत्पन्नास्तदा जातो न निवर्तते ५४ अथ प्रदोषलक्षणमनुष्टुभाह
अर्कतर्कनितिथिषु प्रदोषः स्यात्तदग्रिमैः ॥
राज्यर्धसार्धप्रहरयाममध्यस्थितैः क्रमात् ॥ ५५ ॥
अर्केति ॥ तदग्रिमैस्तिथिभिरर्कादितिथिषु प्रदोषः स्यात् । यथा द्वादश्यामर्धरात्रात्प्राक् त्रयोदशीप्रवृत्तौ प्रदोषः । षष्ठयां चार्धप्रहरमध्ये सप्तमीप्रवृत्तिस्तदा प्रदोषः । तथा तृतीयायां प्रहरमध्ये चतुर्थीप्रवेशे प्रदोषः । अत्र द्वितीयप्रहरस्य चरमघटिकातृतीयप्रहरस्याद्याघटिकेत्येवं घटिकाइयमितः कालो रात्र्यर्धशब्दवाच्यः । तेन समांशवाचित्वाभावादर्घं नपुंसकमिति एकदेशिसमासाभावः ॥ १५ ॥
अथव्रतबंधानंतरं सायंकाले बहुचां ब्रह्मौदनाख्यः संस्कारोऽभिहितस्तत्रार्यया विशे
षमाह
प्रारब्रह्मौदनपाकाद्वतबंधानंतरं यदि चेत् ॥
उत्पातानध्ययनोत्पत्तावपि शांतिपूर्वकं तत्स्यात् ॥ ५६ ॥
प्राब्रह्मौदनेति ॥ स्पष्टार्थम् । उक्तं च नृसिंहप्रसादे । ब्रह्मौदनविधेः पूर्व प्रदोषे गर्जितं भवेत् । तदा विघ्नकरं ज्ञेयं बटोरध्ययनस्य तत् ॥ तस्य शांतिप्रकारं तु वक्ष्ये शास्त्रानुसारतः । स्वस्तिवाचनपूर्वं तु हवनं कारयेद्बुधः ॥ प्रधानं पायसं साज्यं द्रव्यं शांतियजौं
Aho! Shrutgyanam