________________
१०६
अथ गुरुबलमनुष्टुभाह
मुहूर्तचिंतामण
बटुकन्याजन्मराशेत्रिकोणायद्विसप्तगः ॥
श्रेष्ठो गुरुः खषयाथे पूजयान्यत्र निंदितः ॥ ४६ ॥
बटुकन्येति ॥ बटुरुपनयनाधिकारी तथा कन्या स्त्रीजात्यपत्यं तज्जन्मराशेर्नवमपंमैकादशद्वितीय सप्तमस्थानस्थितो गुरुः श्रेष्ठ उत्तमः दशषट्तृतीयप्रथमस्थानस्थितो गुरुः पूजया पूजाविधानेनानुष्ठितेन श्रेष्ठः अन्यत्र चतुर्थाष्टमद्वादशस्थानस्थो निंद्यो निषिद्ध - त्यर्थः । नारदः । बालस्य बलहीनोऽपि शांत्या जीवो बलप्रदः । यथोक्तवत्सरे कार्यमनुक्तेनोपनायनम् ॥ वसिष्ठः । उक्तेऽपि वर्षे न गुरुर्बली चेच्छांत्या प्रशस्तं व्रतबंधकर्म । अनुवर्षे सुबलप्रदोऽपि नैवैतयोरब्दबलं गरीय इति । गर्गः । व्रतबंधे विवाहे च प्रतिष्ठायां विशेषतः । गोचरेणैव कर्तव्यं वेधादिकमकारणमिति । वेधस्तु । व्यये पक्षैस्त्रि शैलैः खगे नंदैः सुखे शरैः। रंध्रे रुद्रैर्ग्रहैर्विद्धो गुरुः शुद्धोऽशुभोऽन्यथा ॥ प्राच्यास्तु गोचरबलाभावेऽष्टकवर्गबलमाहुः । राजमार्तंडः । अष्टवर्गविशुद्धेषु गुरुशीतांशुभानुषु । व्रतोद्वाहौ तु कर्तव्यौ गोचरेण कदाचनेति । अन्यच्च । अष्टवर्गेण ये शुद्धास्ते शुद्धाः सर्वकर्मसु । सूक्ष्माष्टवर्गसंशुद्धिस्थूला शुद्धिस्तु गोचरे । तत्र गुरोरष्टवर्गो बृहज्जातके । दिक्स्वाद्याष्टमदायबंधुषु कुजात्स्वात्सत्रिकेष्वंगिराः सूर्यात्सत्रिनवषुधस्विनवदिग्लाभारिगो भार्गवात् । जायायार्थनवात्मजेषु हिमगोर्मंदात्रिषड्धीव्यये दिग्वषिट्स्वसुखाय पूर्वनवगो ज्ञात्सस्मरेषूदयात् ॥ वराहः । पूजाभिलाषं प्रति निस्टहेऽपि कुर्याद्धरौ शुद्धिविवर्जितेऽपि । वरस्या शुभदं विवाहं वदंति गर्गच्यवनादिमुख्याः ॥ अत्र चतुर्थाष्टमद्वादशस्थानस्थितत्वेन गुरोर्द्विगुणत्रिगुणादिकां पूजां विधाय विवाहव्रतबंधादिशुभमिति संप्रदायविदः ॥ ४६ ॥
अथ गुरुदौष्टचापवादमनुष्टुभाह
स्वोचे स्वभे स्वमैत्रे वा स्वांशे वर्गोत्तमे गुरुः ॥ रिफाष्टतुर्योsपीष्टो नीचारिस्थः शुभोऽप्यसन् ॥ ४७ ॥
I
स्वोच्च इति ॥ गुरुचतुर्थादिनिंद्यस्थानस्थितोऽपि स्वोच्चे कर्के स्वभे धनुर्मीने स्वमैत्रे मेषसिंहनृश्चिके स्वांशे धनुर्मीननवांशे वर्गोत्तमे नवांशे । यथा वृषराशौ वृषनवांशे गुरुर्वर्गोत्तम इति वर्गोत्तमलक्षणम् । वर्गोत्तमा नवांशाश्चरादिषु प्रथममध्यांता इति । एषु स्थितो गुरुरिष्टः शुभफलदाता । अन्येषु एतादृशो गुरुरतीव शुभः । भुजबलः । वर्गोत्तमे स्वभ वने भवनेऽथ मैत्रे मित्रांशके स्वभवनोञ्चनवांशके वा । जन्माष्टरिः फरिपुखत्रिचतुर्थोऽपि जीवः सुखार्थसुतवृद्धिकरो विवाहे ॥ नीचेति । नीचं मकरः अरिस्थः मिथुनकन्धातुलावृषराशिस्थः शुभोऽप्यसन् अनिष्टफलदातेत्यर्थः । उक्तं च । उच्चस्थः स्वगृहे सुहृद्भवनगो वाच -
1
Aho! Shrutgyanam