________________
संस्कारप्रकरणम् |
१०७
स्पतिर्नित्यशः पूर्णायुर्विविधार्थसौख्यजनको जन्माष्टमस्थोऽपि चेत् । नीचस्थोऽरिगृहे दिवा - करकरच्छायानुगामी सदापीष्टोऽनिष्टफलं ददाति नियतं वैधव्यदुःखास्पदम् || अत्राष्टमस्थोऽपि चेदित्यपिशब्देन चाष्टमं लक्षगुणं प्रपूजयेदिति विधानात् पूजामनीहमानेऽप्युपनयनादि शुभं स्यात् द्वादशचतुर्थस्थानस्थस्य तु द्विगुणपूजामिच्छतः तथातृतीयादिस्थानस्थस्य पूजामात्रापेक्षस्य गुरोः शुभफलदातृतास्तीति किंवक्तव्यमिति कैमुतिकन्यायसूचनार्थोऽपिशब्दः । नचाष्टमं लक्षगुणं पूजयेदिति शत्रुगृहस्थितगुर्वभिप्रायम् । अस्यापवादो रत्नकोशे । गोचराष्टकवर्गाभ्यां यस्य शुद्धिर्न लभ्यते । तस्योपनयनं कार्यं चैत्रे मीनगते रौ ॥ हरौ सिंहांशगे जीवे नीचर्क्षे नीचभागगे । मौंजीबंधः शुभः प्रोक्तत्रे मीनगते रखौ ॥ पाठांतरम् । जन्मभादष्टगे सिंहे नीचे वा शत्रुगे गुराविति । अर्थाच्चै मेगोsर्को निषिद्धः । तथाचोक्तम् । सौम्यायने व्रतं कार्य चैत्रे मासि विशेषतः । झषों न निंद्यो यदि फाल्गुने स्यादजस्तु वैशाखगतो न निंद्यः । मध्वाश्रितौ द्वावपि वर्जनीयावित्यादिवाचामियमेव युक्तिरिति इदं गणेशदैवज्ञैरभ्यधायि तन्निर्मूलमिव प्रतिभाति मूलवाक्याभावात् ॥ ४७ ॥ अथ व्रतबंधे वर्ज्याननुष्टुभाह
कृष्णे प्रदोषेऽनध्याये शनौ निश्यपराहके ॥ प्राकसंध्यागर्जिते नेष्टो व्रतबंधो गलग्रहे ॥ ४८ ॥
कृष्णेति । एषु व्रतबंधो नेष्टः कृष्णे प्रथमत्रिभागरहितकृष्णपक्षे प्रदोषे यस्मिन्दिने संध्याकाले प्रदोषो भवेत्तद्दिवसे प्रदोषलक्षणमर्कतर्केत्याद्यग्रे वक्ष्यति । अनध्याये वक्ष्यमाणे निशीति अंगवंगकलिंगेषु सौराष्ट्रमगधेषु च । तीर्थयात्रां विना गच्छन् पुनः संस्कारमर्हती पुनः संस्कारप्राप्तौ निमित्तानंतरमेव नैमित्तिकमिति न्यायेन यदि रात्रिसद्भावस्तदोपनयनं माभूदिति रात्रिदोक्तिः । तथा प्राकसंध्या प्रातः संध्या तस्यां गर्जिते मेघशब्दे । वसिष्ठः । व्रते हि पूर्वसंध्यायां वारिदो यदि गर्जति । तद्दिनं स्यादनध्यायो व्रतं तत्र विवर्जयेदिति । अपरार्कः 1 क्षीणे चंद्रेऽष्टमे शुक्रे निरंशे चैव भास्करे । कर्तव्यं नोपनयनं नानध्याये गलग्रहे ॥ राशेः प्रथमभागस्थो निरंशः सूर्य उच्यते । तथा गलग्रहे । गलग्रहानाह गुरुः । त्रयोदश्यादि चत्वारि सप्तम्यादि दिनत्रयम् । चतुर्थी चैकतः प्रोक्ता अष्टावेते गलग्रहाः ॥ दैवज्ञमनोहरे । प्रदोषे निश्यनध्याये मंदे कृष्णे गलग्रहे । मधुं विनोपनीतस्तु पुनः संस्कारमर्हतीति । गलग्रहे प्रदोषे च स्वल्पायुरुपजायत इति च ॥ ४८ ॥
अथांशफलमनुष्टुभाह
'क्रूरो जडो भवेत्पापः पटुः षङ्कर्मकृदुः ॥
यज्ञार्थभा तथा मूर्खो ख्याद्यंशे तनौ क्रमात् ॥ ४९ ॥
Aho! Shrutgyanam