________________
मुहूर्तचिंतामणौ अथ व्रतबंधे सामान्यतो लग्नभंगयोगं प्रमाणिकयाहकवीज्यचंद्रलग्नपा रिपो मृतौ व्रतेऽधमाः॥ व्ययेऽब्जभार्गवी तथा तनौ मृतौ सुते खलाः॥४१॥ कवीज्येति ॥ रिपौ षष्ठे मृतावष्टमस्थाने चेच्छुक्रगुरुचंद्रलग्नस्वामिनो भवंति तदा अधमा मरणकारकाः। अब्जभार्गवौ चंद्रशुक्रौ व्यये अधमौ खलाः पापग्रहाः लग्नाष्टमपंचमस्थानेषु स्थिताः अधमाः ॥ ११ ॥ अथ सामान्यतो लग्नमनुष्टुभाहव्रतबंधेऽष्टषड्रिाफवर्जिताः शोभनाः शुभाः॥ विषडाये खलाः पूर्णो गोकर्कस्थो विधुस्तनौ ॥४२॥ व्रतबंध इति ॥ शुभग्रहाः अष्टमषष्ठद्वादशस्थानस्थिताश्चेत्स्युर्न शोभनाः अन्यस्थाने व्रतबंधे शोभनाः । खलाः पापाः तृतीयषष्ठैकादशस्थानेषु शोभनाः स्युः गोकर्केति पूर्णः शुक्लपक्षीयो विधुः वृषभस्थः कर्कस्थश्च तनौ यदि भवेत्तदा सन् शोभनः नान्यथा । गुरुः । चंद्रे लग्नेऽभिशस्तः स्यात्क्षयरोगी सितेतरे । शुक्लपक्षे भवेद्यज्वा खभे तुंगे विशेषत इति । कश्यपस्तूच्चस्थं चंद्रं सदैव न्यषेधत् । वर्धमानोऽपि वा पूर्णश्चंद्रो यदि विलग्नगः । निःस्वं करोति वतिनं लग्नगः क्षयरोगिणमिति । उच्चस्थसंबंधिनोः पक्षयोर्देशाचारतो व्यवस्था खगृहगस्तूत्तमो मतद्वये ॥ ४२ ॥ अथ वर्णेशशाखेशान् शालिन्याह
विप्राधीशौ भार्गवेज्यो कुजार्की राजन्यानामोषधीशो विशां च ॥ शूद्राणां ज्ञश्चांत्यजानां शनिः स्या
च्छाखेशाः स्युर्जीवशुक्रारसौम्याः॥४३॥ विमाधीशाविति ॥ शुक्रबृहस्पती ब्राह्मणाधीशौ भौमसूर्यौ क्षत्रियाणां स्वामिनी ओषधीशश्चंद्रो वैश्यानां स्वामी बुधः शूद्राणां स्वामी शनिरंत्यजानां चांडालानां स्वामी ऋग्वेदोऽथयजुर्वेदः सामवेदो ह्यथर्वण इति वेदक्रमाज्जीवशुक्रारसौम्याः शाखेशाः स्युः ऋग्वेदस्य गुरुः यजुषः शुक्रः सानो भौमः अथर्वणो बुधः स्वामी ॥ ४३॥ वर्णेशशाखेशयोः प्रयोजनं वसंततिलकयाह
शाखेशवारतनुवीर्यमतीव शस्तं शाखेशसूर्यशशिजीवबले व्रतं सत् ॥ जीवे भृगौ रिपुगृहे विजिते च नीचे स्यावेदशास्त्रविधिना रहितो व्रतेन ॥४४॥
Aho ! Shrutgyanam