________________
१०२
मुहूर्तचिंतामणी
रुशुक्राणां दिने तथा षष्ठीपंचम्यादितिथिषु शुभैः केंद्र त्रिकोणगैः सद्भिः अधीतिः शुभा स्मृता अधोतिरध्ययनम् । परैः ध्रुवांत्यमित्रमे अधीतिः शुभा प्रोक्ता । इदं वचनं धनुर्विद्याविषयमिति दीपिकोक्तेः विद्यारंभे श्रवणत्रयोपादानं महेश्वरादिमतात् । वसिष्ठादिभिः श्रवणस्य केवलस्योक्तत्वात् । इति विद्यारंभः ॥ ३८ ॥
अथ व्रतबंध इति विंशतिपद्यैः प्रोच्यते इति शेषः । तस्य त्रिविधोऽपि कालो नित्यः काम्यो गौणश्च क्रमेण तं शार्दूलविक्रीडितेनाह
विप्राणां व्रतबंधनं निगदितं गर्भाज्जनेर्वाष्टमे
वर्षे वाप्यथ पंचमे क्षितिभुजां षष्ठे तथैकादशे ॥ वैश्यानां पुनरष्टमेऽप्यथ पुनः स्याद्वादशे वत्सरे arosa द्विगुणे गते निगदिते गौणं तदाहुर्बुधाः ॥ ३९ ॥
}
विप्राणामिति ॥ गर्भदिनमारभ्याष्टमे सौरे वर्षेऽथवा जनेरुत्पत्तिदिनात्सौरवर्षेऽष्टमे सति विप्राणां व्रतबंधनं नित्यं गदितम् । अथ काम्यम् । विप्राणामेव गर्भाज्जनेर्वा पंचमे वर्षे कार्यम् । एवं क्षितिभुजां क्षत्रियाणां गर्भाजनेर्वा षष्ठे वर्षे काम्यम् । गर्भाज्जनेर्वा एकादशे सौरवर्षे नित्यं वैश्यानां पुनस्तथैवाष्टमे काम्यम् । तथैव गर्भाज्जनेर्वा द्वादशे नित्यम् । नारदः । आधानादष्टमे वर्षे गर्भतो वाग्रजन्मनाम् । राज्ञामेकादशे मौंजीबंधनं द्वादशे विशामिति । अत्र फलाश्रवणान्नित्यमित्यवसीयते । मनुः । ब्रह्मवर्चसकामस्य कार्यं विप्रस्य पंचमे । राज्ञो बलार्थिनः षष्ठे वैश्यस्यार्थार्थिनोऽष्टमे ॥ अत्र फलश्रवणात्काम्यता पैठीनसिना गर्भपंचमे व्रतबंधनमुक्तम् । गर्भपंचमेऽब्दे ब्राह्मणमुपनयेदिति गर्भषष्ठेऽष्टमे च क्षत्रियविशोर्ज्ञेयं गर्भादिसंख्यावर्षाणामिति स्मृतेश्च । आपस्तंबसूत्रे गर्भाष्टमेषु ब्राह्मणमुपनयेद्गर्भेकादशेषु राजन्यं गर्भद्वादशेषु वैश्यमिति बहुत्वान्यथानुपपत्त्या गर्भषष्टसप्तमाष्टमेष्विति नृत्तिकृद्व्याख्यानात्रयाणामपि नित्यकालता । एवं गर्भेकादशेष्वित्यादावपि व्याख्येयम् । एतच्च तच्छाखाध्यायिविषयं ज्ञेयम् । अथ गौणकाल उच्यते निगदिते प्रोक्ते गर्भाज्जनेर्वाष्टमे इत्यादिके काले तस्मिन् द्विगुणे गते सति तद्रतबंधनं गौणमाहुः । यथा ब्राह्मणस्य षोडशवर्षपर्यंतम् क्षत्रियस्य द्वाविंशतिवर्षपर्यंतम् वैश्यस्य चतुर्विंशतिवर्षपर्यंतं गौणमित्यर्थः । मनुः । आषोडशाद्ब्राह्मणस्य सावित्री नाभिवर्तते । आद्वाविंशाद्ब्रह्मबंधोराचतुर्विंशतेर्विंशः ॥ अत ऊर्ध्व त्रयोऽप्येते यथाकालमसंस्कृताः । सावित्रीपतिता व्रात्या भवत्यपि च गर्हिता इति । केशवः। स्वस्वमौंजी मुख्यकाला च्छ्रेष्ठमध्याधमाः समाः । तिस्रः केशवदैवज्ञैः प्रोक्ता मौंजीनिबंधन इति ॥ ३९ ॥
1
Aho! Shrutgyanam