________________
संस्कारप्रकरणम् ।
१०१
द्यव्याख्यानावसरे अस्य उदये अस्य क्षौरभस्य उदये लग्ने इति व्याख्यातम् । तथा मेषलग्नं त्रिंशद्भागात्मकं तत्राद्यास्त्रयोदश भागा विंशतिकलाधिका यावता कालेन मेषलग्ने उदयं यांति तावदश्विनीनक्षत्रमुदयं यातीति तदनंतरं तावंत एवांशा यावता कालेनोदयं यांति तावदूरयुदय इत्यनेन न्यायेन सर्वेषां नक्षत्राणामुदया ज्ञेयाः । भ्रातरस्तु एवं व्याकुर्वते । यस्मिन् काले अश्विन्या उदयक्षितिजसंबंध: संपद्यते तं समयमारभ्ययावद्भरण्या उदयक्षितिजसंबंधस्तदंतरे यावान्कालः सोऽश्विन्या उदय उच्यते । एवं सत्युदयलनद्वयांशांतरालात् गणितमार्गेण यावानिष्टकाल आगच्छेत् स एव तन्नक्षत्रोदय इति निष्कृष्टोऽर्थः । षडनिरिति अग्निः कृत्तिका क्षौरावृत्या षड्रारं कृत्तिका यस्य सः एवं त्रीणि मैत्राण्यनूराधा यस्य अष्टौ का रोहिण्यो यस्य पंच पित्र्याणि मघा यस्य अब्धयश्चत्वारोऽर्यमण उत्तराफल्गुन्यो यस्य स एतादृशः क्षौरदब्दतो वर्षानंतरं मृत्युं मरणमेति प्राप्नोति । वसिष्ठः । अष्टाब्जऋक्षः पितृपंचकश्च षड्वह्निधिष्ण्यश्चतुरर्यमर्क्षः । त्रिमैत्रभः पद्मजसन्निभोऽपि क्षौरी नरोऽब्दान्निधनं गतः सः । इति क्षौरम् ॥ ३६॥
अथ प्राप्तकालत्वादक्षरारंभमुहूर्त पंचचामरच्छंदसाह - गणेशविष्णुवाग्रमाः प्रपूज्य पंचमादके तिथौ शिवार्कदिग्द्वषट्शरत्रिके रखावुदक् ॥ लघुश्रवोनिलांत्यभादितीशतक्षमित्रभे
चरोनसत्तनौ शिशोर्लिपिग्रहः सतां दिने ॥ ३७ ॥ गणेशेति ॥ गणेशविष्णू प्रसिद्धौ वाक् सरस्वती रमा लक्ष्मीः एता देवताः प्रपूज्य पंचमे वर्षे सति शिव एकादशी द्वादशी दशमी द्वितीया षष्ठी पंचमी तृतीया आसामन्य - तमतिथौ वावुदक् उत्तरायणगते सति तथा लघुनक्षत्राणि हस्ताश्विपुष्याः श्रवणस्वातिरेव - ती पुनर्वसुः ईश आर्द्रा तक्षा चित्राः मित्रमनुराधा एषामन्यतमनक्षत्रे सति तथा सतां सोमज्ञगुरुशुक्राणां दिने दिवसे तथा चरराशयो मेषकर्कतुलामंकरास्तद्रहित शुभस्वामिके वृषमिथुनकन्याधनुर्मीनानामन्यतमे लग्ने सति शिशोलिंपिग्रहो नूतनाक्षरालेखनप्रारंभः कार्यः ३७ अथ विद्यारंभमुहूर्त पंचचामरेणाह
मृगात्कराच्छ्रत्रयेऽश्विमूलपूर्विकात्रये गुरुarshitaवित्सितेऽह्नि षट्शरत्रिके ॥ शिवार्करिके तिथौ ध्रुवत्यमित्रभे परैः शुभैरधीतिरुत्तमा त्रिकोणकेंद्रगैः स्मृता ॥ ३८ ॥
मृगादिति ॥ मृगात्रये मृगार्द्रापुनर्वसुषु हस्तात्रये हस्तचित्रास्वातीषु श्रुतेः श्रवणात्रये श्रवणधनिष्ठाशतमेषु अश्विन्यां मूले पूर्वात्रये गुरुद्वये पुष्याश्लेषयोः तथा सूर्यगु
Aho! Shrutgyanam