________________
संस्कारप्रकरणम् । पंचमासाधिक इति ॥ संस्कार्यमातुर्गर्भे पंचमासेभ्योऽधिके सति चौलं शुभं न स्यात् पंचमासेभ्यः पूर्व चौलं शुभमित्यर्थः । गर्भ मातुः कुमारस्य न कुर्याच्चौलकर्म च । पंचमासादधः कुर्यादत ऊर्वं न कारयेदिति वसिष्ठोक्तेः । अस्यापवादमाह । पंचवर्षाधिकस्येति । उल्लंघितपंचवर्षस्य शिशोर्मातरि गर्भिण्यामपि सत्यां पंचमासादूर्ध्वमपि चौलमिष्टम् । नारदः । सूनोर्मातरि गर्भिण्यां चूडाकर्म न कारयेत् । पंचमाब्दात्प्रागथोवं गर्भिण्यामपि कारयेत् ।। सहोपनीत्या कुर्याच्चेत्तदा दोषो न विद्यत इति । अत्र तु पंचवर्षाणां न्यूनाधिकभावो नापेक्षितः सर्वापवादकत्वात् ॥ ३१॥ ___ अथ चौले ताराबलमावश्यकमित्युक्तं तत्र दुष्टतारापवादं शालिन्याहतारादौष्टयेऽब्जे त्रिकोणोचगे वा क्षौरं सत्स्यात्सौम्यमित्रस्ववर्गे ॥ सौम्ये भेऽब्जे शोभने दुष्टतारा शस्ता ज्ञेया क्षौरयात्रादिकृत्ये ३२ __ तारादौष्टये इति ॥ दुष्टतारायामपि सत्यां अब्जे चंद्रे त्रिकोणोच्चगे त्रिकोणगे उच्चगे वा सति क्षौरं सत् शुभं स्यात् । वा अथवा सौम्यमित्रस्ववर्गे सौम्यानां बुधगुरुशुक्राणां षड्वर्गे चंद्रे सति अथवा स्वस्यैव षड्दर्गे सति क्षौरं सत्स्यात् । सौम्य इति । सौम्ये भे शुभग्रहराशौ चंद्रे सति स्वस्य गोचरेण शोभने सति दुष्टतारापि क्षौरयात्रादिकृत्ये शोभना समीचीना ज्ञेया ॥ ३२ ॥ अथ विशेषमनुष्टुभाहऋतुमत्याः सूतिकायाः सूनोश्चौलादि नाचरेत् ॥
ज्येष्ठापत्यस्य न ज्येष्ठे कैश्चिन्मार्गेऽपि नेष्यते ॥ ३३ ॥ ऋतुमत्या इति ॥ ऋतुमत्या रजस्वलायाः तथा सूतिकाया जातापत्यायाश्च सूनोचौलोपनयनविवाहादिकृत्यं बालस्य बालिकायाश्च वा नाचरेन कुर्यात् । उक्तं च प्रचेतसा । यस्य मांगलिकं कृत्यं तस्य माता रजस्वला । तदा स मृत्युमाप्नोति पंचमं दिवसं विनेति । विवाहोत्सवकार्येषु माता चैव रजस्वला । वैधव्यं जायते तत्र नृनार्योः पाणिपीडन इति । ज्येष्ठापत्यस्याद्यगर्भसुतस्य कन्याया वा शुभकृत्यं चौलादिकं ज्येष्ठे मासि न भवति । कैश्चिदिति मार्गशीर्षेऽपि कैश्चिदाचार्येराद्यगर्भसुतकन्ययोर्मंगलकृत्यं नेष्यते । भरद्वाजः । मार्गशीर्षे तथा ज्येष्ठे क्षौरं परिणयं व्रतम् । आद्यगर्भदुहितोश्च यत्नेन परिवर्जयेदिति॥३३॥ अथ सामान्यतः क्षौरमुहूर्त तन्निषिद्धं कालं च शार्दूलविक्रीडितेनाहदंतक्षौरनखक्रियात्र विहिता चौलोदिते वारों पातंग्याररवीन्विहाय नवमं घस्रं च संध्यां तथा ॥ रिक्त पर्व निशां निरासनरणग्रामप्रयाणोद्यतस्नाताभ्यक्तकृताशनैहि पुनः कार्या हितप्रेप्मुभिः ॥ ३४॥
Aho ! Shrutgyanam