________________
मुहूर्तचिंतामणी
तृतीये वा कर्तव्यं श्रुतिचोदनादिति । अत्र बहुकालोक्तौ यथागृह्यं व्यवस्था । स्वगृह्ये विशेषकालानुक्तौ तु समबलत्वात्सर्वेषां विकल्पः । अष्टमी अर्को द्वादशी रिक्ताः आद्या प्रतिपत् षष्ठी पर्वाणि पूर्वोक्तानि चतुर्दश्यष्टमीत्यादीनि एतैरूने रहितेऽह्नि गुरुणा गलग्रहोऽपि निषिद्धः । विद्यारंभव्रतोद्देशक्षौरं चैव विशेषतः । गलग्रहे न कर्तव्यं यदीच्छेत्पुत्रजीवितमिति । विचैत्र इति चैत्ररहिते उत्तरायणे चूडा स्यात् । शुभाशुभप्रकरणोक्तो जन्ममासनिषेधोऽत्रापि ध्येयः । तथा ज्ञेदुशुक्रेज्यकानां वारे लग्नांशयोश्चेति । सौम्यग्रहाणां वारे सौम्यग्रहाणां लग्ने तेषामेव नवांशे चूडा स्यात् । पापग्रहाणां वारेऽपि विप्राणां तु शुभो रविः । क्षत्रियाणां तु भूसूनुर्विट्शूद्राणां शनिः शुभ इति प्रयोगपारिजातोक्तेः । तथा स्वभनिधनतनौ भं लग्नं राशिश्व स्वस्य मे स्वभे स्वभाभ्यां निधनं अष्टमं लनं तन्न विद्यते यस्मिंस्तनौ स्वजन्मलग्नजन्मराशिभ्यामष्टमलनरहिते लग्ने चूडा स्यात् । तथा नैधने अष्टमस्थाने शुद्धियुक्ते शुक्रव्यतिरिक्तसर्वग्रहरहिते लग्ने चूडा स्यात् । अष्टमस्था ग्रहाः सर्वे नेष्टाः शुक्रविवर्जिताः । शुक्रस्तु निधने चौले सर्वसंपत्करः शिशोरिति पराशरोक्तेः । ज्येष्ठायुक्तैरनूराधारहितैर्मृदुचरलघुभैर्द्वादशनक्षत्रैरुपलक्षिते काले चूडा स्यात् । अथ लग्नबलम् एकादशषष्ठतृतीयस्थानस्थैः पापग्रहैरसद्भिः तथा क्षीणचंद्रभौमशनिसूर्यैः केद्रगतैः क्रमेण यथासंख्यं मृत्युः शस्त्रान्मृतिः पंगुता खंजत्वम् ज्वरः एतानि फलानि स्युः बुधजीवभार्गवैस्तु केंद्रस्थैः शुभं कल्याणं स्यात् । वसिष्ठेन लग्नादिविषये विशेष उक्तः । मेषे दुःखी मृगेंद्रे च वृश्चिके व्यसनं भवेत् । राजा बौधे च धनुषि शुभयुक्ते न दुष्यति ॥ विषशस्त्र जलैर्घोरैः पीड्यते मरणान्वितः । क्षौरे मृत्युर्घटे लग्ने शुभयुक्तेऽपि सक्षतः || जामित्रे भास्करे क्षौरे मृत्युः स्याद्भूमिजे तथा । शुक्रे सौख्यविनाशः स्यान्मंदभाग्यं शनैश्वरे इति । नक्षत्रेषु विशेषमाह गुरुः । हस्ताश्विविष्णुपौष्णानि श्रविष्ठादित्यपुष्यभम् । सौम्यचित्रे तथा क्षौरे उत्तमा नव तारकाः । त्रीण्युत्तराणि वायव्यं रोहिणी वारुणं तथा ॥ क्षौरे षण्मध्यमाः प्रोक्ताः शेषा द्वादश गर्हिता इति । क्षौरादिषु जन्मलग्नं शुभमाह भृगुः । कृषिः प्रयाणं क्षौरं च विवाहः प्राशनं तथा । शिशोर्वस्त्रं च पानं च जन्मराशौ शुभं भवेत् || जन्मलग्ने शुभं क्षौरं मध्ये वर्ज्यं व्ययेऽष्टम इति । गर्गस्तु । आत्मराश्युदये षष्ठे द्वादशे निधने तथा । शत्रुक्षेत्रे च नीचे च क्षौरं नैव प्रशस्यते || जन्मलग्नं सति संभवे वर्ज्यमित्यनयोर्व्यवस्था । च पुनरिष्टतारया गोचरप्रकरणोक्तया शुभफलदया तारया चूडा स्यात् । केशवमानर्तपुरं पाटलिपुत्रं पुरीमहिच्छत्रम् । दितिमदितिं च स्मरतां क्षौरविधौ भवति कल्याणमिति ॥ २९ ॥ ३० ॥ अथ सगर्भायां संस्कार्यमातरि विशेषमनुष्टुभाह
९८
पंचमासाधिके मातुर्गर्भे चौलं शिशोर्न सत् ॥ पंचवर्षाधिकस्येष्टं गर्भिण्यामपि मातरि ॥ ३१ ॥
Aho! Shrutgyanam