________________
संस्कारप्रकरणम् ।
९७ पुरः पश्चादिति ॥ भृगोः शुक्रस्य पुरः पूर्वस्यां दिश्युदितस्य पश्चिमदिश्युदितस्य च यथासंख्यं त्रिदशाहं बालत्वं स्यात् । पूर्वस्यां त्रिदिनं पश्चाद्दशदिनमित्यर्थः । च पुनः भृगोर्वार्धकं पूर्वस्यामस्ते पक्षं पंचदश दिनानि पश्चादस्ते पंच दिनानि। गुरोस्ते द्वे बाल्यवार्धके पक्षं पंचदश दिनानि उदाहृते कथिते ॥ २७॥ . अथापरमतेन बाल्यवार्धकं चानुष्टुभाहते दशाहं द्वयोः प्रोक्ते कैश्चित्सप्तदिनं परैः॥
व्यहं त्वात्ययिकेऽप्यन्यैरर्धाहं च व्यहं विधोः ॥२८॥ ते दशाहमिति ॥ दिडियमं त्यत्का द्वयोर्गुरुशुक्रयोः ते बाल्यवार्धके दशाहं दशदिनं प्रोक्त कैश्चित् । अपरैस्तु सप्तदिनं बाल्यवार्धके प्रोक्त अन्यैरूयहं त्रिदिवसं ते बाल्यवार्धके प्रोक्ते परंतु आत्ययिके कार्यस्यावश्यंभावोऽत्ययः स प्रयोजनमस्येति आत्ययिक तस्मिन् लग्नांतराभावे सति अतिकालस्य बटोः अवश्यदेयायाः कन्याया वा यथासंभवं दश सप्त त्रिदिनानि वया॑नि नान्यथेत्यर्थः । अथ देशभेदेन वा व्यवस्था । गर्गः । शुक्रो गुरुः प्राक् परतश्च बालो विध्ये दशावतिषु सप्तरात्रम् । वंगेषु हूणेषु च षट् च पंच शेषे तु देशे त्रिदिनं वदंति । चंद्रस्य विशेषमाह । अर्धाहमिति । विधोस्ते बाल्यवार्धके क्रमेणार्धाहं त्र्यहं च भवतः । बाल्यमर्धदिनं वार्धकं त्रिदिनं चंद्रस्येत्यर्थः । उक्तं च वसिष्ठेन । वृद्धत्वमिंदोस्त्रिदिनं दिनाधू बालत्वमस्तत्वमहईयं च । येनोक्तमेकं दिवसं शिशुत्वमित्येतदिंदोस्तदयुक्तमेवेति । कश्यपेन बालोऽपीदुः शुभ एवोक्तः। वृद्धचंद्रः स्त्रियं हंति पति हत्यस्तमागतः। यतस्त्वमृतरश्मित्वाद्वालोऽपि शुभदः शशीति । अत एव संपूर्णायामपि शुक्लप्रतिपदि द्वितीयादिने द्वितीयायां प्रातर्यज्ञोपवीतादिकं शिष्टाः कुवैति ॥ २८ ॥ अथ चौलमुहूर्त स्त्रग्धरारथोद्धताभ्यामाह
चूडावर्षात्तृतीयात्प्रभवति विषमेऽष्टार्करिक्ताद्यषष्ठीपर्वोनाहे विचैत्रोदगयनसमये जेंदुशुक्रेज्यकानाम् ॥ वारे लग्नाशयोश्चास्वभनिधनतनौ नैधने शुद्धियुक्ते
शाक्रोपेतैर्विमैत्रैर्मृदुचरलघुभैरायषत्रिस्थपापैः ॥२९॥ क्षीणचंद्रकुजसौरिभास्करैर्मृत्युशस्त्रमृतिपंगुताज्वराः॥ स्युः क्रमेण बुधजीवभार्गवैः केंद्रगैश्च शुभमिष्टतारया ॥३०॥
चूडावर्षादिति । क्षीणचंद्रेति ॥ तृतीयाद्वर्षादिति ल्यब्लोपे पंचमी । तेन गर्भाधानकालाजन्मकालाहा तृतीये वर्षे पंचमे वा चूडाकरणं प्रभवति कृतं शुभोदकं भवतीत्यर्थः। तृतीयेऽब्दे शिशोर्गर्भाजन्मतो वा विशेषतः । पंचमे सप्तमे वापि स्त्रियाः पुंसोऽपि वा सममिति । मनुना प्रथमे वर्षेऽप्युक्तम् । चूडाकर्म द्विजातीनां सर्वेषामेव धर्मतः । प्रथमेऽब्दे
Aho ! Shrutgyanam