________________
मुहूर्तचिंतामणौ लाधनुर्मीनाख्ये पापाख्यैर्ग्रहैः तृतीयषष्ठैकादशस्थानस्थैः गुरौ लग्नस्थे सति कर्णवेधः शुभावहः शुभजनकः स्यात् । अथाब्दपूर्तिमूहूर्तः प्रसंगात् विधिरत्ने । अब्देन सौरेण शिशोः समांते बालं सुसंस्नाप्य च जन्मधिष्ण्ये । कृत्वायुषो वृद्धिकरं च कर्म तं धारयेद्वस्त्रसुवर्णसूत्रम् ॥ अत्र खंडनक्षत्रे निर्णयमाह । वृद्धगर्गः । उदयव्यापि जन्मक्षं तस्माद्वाह्यं तु जन्मतः । संगवव्यापि खंडः तत्र जन्मकरं शुभम् ॥ दाक्षिणात्यास्तु जन्ममासीयजन्मतिथावन्दपूर्ति कुर्वतीति ॥२५॥ अथ चूडाकर्ममुहूर्त विवक्षुस्तन्निषेधकं प्रसंगतोऽन्यकनिषेधकं च कालं स्रग्धरयाहगीर्वाणांबुप्रतिष्ठापरिणयदहनाधानगेहप्रवेशाचौलं राजाभिषेको व्रतमपि शुभदं नैव याम्यायने स्यात् ॥ नो वा बाल्यास्तवार्धे सुरगुरुसितयोर्नैव केतूदये स्यात्पक्षं वार्धं च केचिज्जहति तमपरे यावदीक्षां तदुग्रे ॥ २६ ॥ गीर्वाणेति ॥ गीर्वाणाः देवाः अंबु जलं जलाशयः तयोः प्रतिष्ठा उत्सर्गः परिणयो विवाहः दहनाधानमन्याधानम् । गेहप्रवेशो गृहप्रवेशः चौलराजाभिषेकौ प्रसिद्धौ व्रतमुपनयनं इदं सर्व याम्यायने दक्षिणायने शुभदं न स्यात् । तथा गुरुशुक्रयो ल्ये अस्ते वार्धक्ये च पूर्वोक्तं न शुभदं स्यात् । अथ केतूदये धूमकेतोरुदयेऽपि पूर्वोक्तं न शुभं स्यात् । चंडेश्वरः । केतोरस्तदिनादूर्ध्व सप्ताहं मंगलं त्यजेत् । यावत्केतूदयस्तावदशुद्धः समयो हि सः ॥ अत्र केचित्केतदये जाते सति पक्षं पंचदश दिनानि जहति वर्जयंति । वराहः। दृष्टः षोडशवासरान्न शुभदः कैश्चित्प्रदिष्टः शिखीति । केचित्तु पक्षांतरे अर्ध पक्षाध सप्त दिनानि केतूदयानंतरं जहति इदमपि तत्रैव । केतूदये सप्तदिनानि चोर्ध्वं विहाय यात्रादिषु गर्हितानि । दिनानि शेषाणि शुभानि नूनं वदंति रैभ्यप्रमुखा मुनींद्राः ॥ तमिति । अपरे आचार्याः तं केतुं यावदीक्षां यावद्दर्शनं यजहति तदुग्रे केतौ द्वित्रिचूडे तामसकीलकादावतिदुष्टफलं द्रष्टव्यम् । तेषां लक्षणमाह गर्गः । त्रिशिखाश्च त्रिताराश्च रक्तलोहितरश्मयः । प्रायशस्तूत्तरामाशां सेवंते नित्यमेव हीति । यत्तु यावदर्शनं केतूदये निषिद्धमित्युक्तं तदुग्रे ब्रह्मपुत्राख्ये केतौ ज्ञेयम् । ज्योतिर्निबंधे । केतोरस्तदिनादूर्ध्वं सप्त रात्राणि वर्जयेत् । ब्रह्मपुत्रोद्गमे वयं व्रतयात्रा च मंगलम् ॥ तल्लक्षणमाह वराहः । ब्रह्मसुत एक एव त्रिशिखो वर्गस्त्रिभिर्युगांत करः । अनियतदिक्संप्रभवो विज्ञेयो ब्रह्मदंडाख्य इति ॥ २६ ॥ अथ शुक्रगुर्वो ल्यवार्धक्ययोर्दिनसंख्यामनुष्टुभाह
पुरः पश्चाट्टगोर्खाल्यं त्रिदशाहं च वार्धकम् ॥ पक्षं पंचदिनं ते द्वे गुरोः पक्षमुदाहृते ॥ २७ ॥
Aho! Shrutgyanam