________________
संस्कारप्रकरणम् । अथ शिशोस्तांबूलभक्षणमुहूर्त स्रग्धरयाहवारे भौमाकिहीने ध्रुवमृदुलघुभविष्णुमूलादितींद्रस्वातीवस्वभ्युपेतैमिथुनमृगसुताकुंभगोमीनलग्ने ॥ सोम्यैः केंद्रत्रिकोणैरशुभगगनगैः शत्रुलाभत्रिसंस्थैस्तांबूलं सार्धमासद्वयमितसमये प्रोक्तमन्नाशने वा ॥ २३ ॥ वारे भौमाकिहीने इति ॥ भौमशनिवर्जिते वारे श्रवणमूलपुनर्वसुज्येष्ठास्वातीधनिष्ठासहितैः ध्रुवमृदुलघुनक्षत्रैरुपलक्षिते काले मिथुनमकरकन्याकुंभवृषमीनानामन्यतमे लग्ने सौम्यग्रहैः केंद्रत्रिकोणगतैः अशुभगगनगैः पापग्रहैः षष्ठैकादशतृतीयगैः सार्धमासद्वये समये बालकस्य तांबूलदानं प्रोक्तम् । वा अथवा अन्नाशने अन्नप्राशनसमये प्रोक्तम् ॥ २३ ॥ अथ कर्णवेधमुहूर्त स्रग्धरयाहहित्वैतांश्चैत्रपोषावमहरिशयनं जन्ममासं च रिक्तां युग्माब्दं जन्मतारामृतुमुनिवसुभिः संमिते मास्यथो वा ॥ जन्माहात्सूर्यभूपैः परिमितदिवसे ज्ञेज्यशुक्रंदुवारेऽथो
जाब्दे विष्णुयुग्मादितिमृदुलघुभैः कर्णवेधः प्रशस्तः ॥ २४ ॥ हित्वैतानिति ॥ एतान् पदार्थान् हित्वा कर्णवेधः प्रशस्त इत्यन्वयः । हरिशयनं आषाढशुक्लैकादशीमारभ्य कार्तिकशुद्धैकादशीपर्यंतम् । जन्ममासं यस्मिन् चांद्रमासे चैत्रादौ जन्म स जन्ममासः । केचित् । आरभ्य जन्मदिवसं यावत्रिंशद्दिनं भवेत् । जन्ममासः स विज्ञेयो वर्जितः सर्वकर्मसु इति लक्षणलक्षितं वर्जयंति । रिक्ताम् ४, ९, १४ युग्माब्दं समवर्ष द्वितीयचतुर्थादिकम् । जन्मतारां प्रथमदशमैकोनविंशात्मिकां च हित्वा । ऋत्विति ऋतुमुनिवसुभिः संमिते मासि षष्ठसप्तमाष्टममासेषु अथो वा जन्माहात्सूर्यैः द्वादशभिः भूपैः षोडशभिः परिगणिते दिवसे सौरसावने बुधगुरुशुक्रचंद्रवारे ओजाब्दे विषमवर्षे विष्णुयुग्मं श्रवणधनिष्ठे पुनर्वसुम॒नि मृगरेवतीचित्रानुराधाः लघूनि हस्ताश्विपुष्याभिजित एतैर्नक्षत्रैः कर्णवेधः प्रशस्तः ॥ २४ ॥
अथ कर्णवेधे लग्नशुद्धि प्रहर्षिण्याहसंशुद्ध मृतिभवने त्रिकोणकेंद्रन्यायस्थैः शुभखचरैः कवीज्यलग्ने । पापाख्यैररिसहजायगेहसंस्थैर्लमस्थे त्रिदशगुरौ शुभावहः स्यात् २५
संशुद्ध इति ॥ मृतिभवनेऽष्टमस्थाने संशुद्धे सर्वग्रहरहिते सति शुभग्रहैः त्रिकोणकेंद्रत्र्याय ९, ५, १, ४, ७, १०, ३, ११ स्थैः सद्भिः कवीज्यलग्ने शुक्रगुर्वोर्लग्ने वृषतु
Aho! Shrutgyanam