________________
मुहूर्तचिंतामणौ शिक्षाशी यज्ञकृद्दीर्घजीवी ज्ञानी च पित्तरुक् ॥ - कुष्ठी चान्नक्लेशवातव्याधिमान् भोगभागिति ॥२०॥ क्षीणेंद्विति । भिक्षाशीति ॥ त्रिकोणे ९, ५ व्ययं १२ केंद्राणि दशमरहितानि १, ४, ७ अष्टौ ८ एषु स्थितैः क्षीणेद्वादिभिः अष्टभिभिक्षाशीत्यादिकं फलं यथासंख्येनोक्तं मुनिभिरिति शेषः । यथा एषु स्थानेषु स्थितः क्षीणचंद्रश्चेत्तदान्नप्राशनकृत् बालो भिक्षाशी दरिद्रः स्यात् । पूर्णचंद्रश्चेत्तदा ज्योतिष्टोमादियज्ञकृत गुरुश्चेदीर्घजीवी बुधश्चेत् ज्ञानी भौमश्चेत् पित्तरुक् पित्तकता रुगस्यासौ पित्तरुक् अर्कश्चेत्कुष्ठी आर्किः शनिश्चेदन्नाभावसंबंधी क्लेशोऽन्नक्लेशः वातप्रधानो व्याधिर्वातव्याधिः एतौ विद्यते यस्य सोऽन्नक्लेशवातव्याधिमान् स्यात् राहुकेत्वोरप्येतदेव फलम् । शुक्रश्चेद्भोगभाक् स्यात् । क्षीणचंद्रपूर्णचंद्रयोर्लक्षणमाह वसिष्ठः । संपूर्णेदूभयाष्टम्योर्मध्येदुः पूर्णसंज्ञकः । विनष्टंदूभयाष्टम्योमध्येऽसौ क्षीणसंज्ञक इति ॥ १९ ॥ २० ॥ अथभूम्युपवेशनं वसंततिलकयाह
पृथ्वीं वराहमभिपूज्य कुजे विशुद्धे रिक्ते तिथौ व्रजति पंचममासि बालम् ॥ बध्वा शुभेऽह्नि कठिसूत्रमथ ध्रुवेंदु
ज्येष्ठःमैत्रलघुभैरुपवेशयेत्कौ ॥ २१ ॥ पृथ्वीमिति ॥ कुजे विशुद्धे भौमबले सति रिक्तावर्जिते तिथौ पंचममासि व्रजति लग्ने सति शुभेऽह्नि शुभग्रहवारे तथा ध्रुवमृगे ज्येष्ठानुराधालघुनक्षत्रैरुपलक्षिते काले कटिसूत्रं पट्टसूत्रादिनिर्मितं कटिस्थले बध्वा को पृथिव्यां बालमुपवेशयत् मंत्रपाठपुरःसरं उपवेशनाख्यं संस्कारं कुर्यात् । मंत्राश्च पद्मपुराणे । रक्षेनं वसुधे देवि सदा सर्वगतं शुभे । आयुःप्रमाणसकलं निक्षिपख हरिप्रिये ॥ अचिरादायुषस्तस्य ये केचित्परिपंथिनः । जीवितारोग्यवित्तेषु निर्दहस्वाचिरेण तान् ॥ धारिण्यशेषभूतानां मातस्त्वमधिका ह्यसि । कुमारं पाहि मातस्त्वं ब्रह्मा तदनुमन्यताम् ॥ तस्योपवेशनं कृत्वा भूमौ ब्राह्मणभोजनम् । ततः कृत्वा ततः कुर्यादुत्सवं पूवहिज इति । उत्सवो नीराजनादिः इदं कन्यापुत्रयोः साधारणम् । विशेषाभावात् ॥ इति भूम्युपवेशनम् ॥ २१ ॥
अथ जीविकापरीक्षा भूम्युपवेशनकाल एव शालिन्याहतस्मिन्काले स्थापयेत्तत्पुरस्ताद्वस्त्रं शस्त्रं पुस्तकं लेखनी च ॥ स्वर्ण रौप्यं यच्च गृह्णाति बालस्तैराजीवैस्तस्य वृत्तिःप्रदिष्टा ॥२२॥
तस्मिन्काल इति ॥ स्पष्टार्थम् आजीवैर्जीविकाभिः । आजीवो जीविका वार्ता इत्यभिधानात् ॥ २२ ॥
Aho ! Shrutgyanam