SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ संस्कारप्रकरणम् । ९३ येदिति कश्यपोक्तेः । तथा मीनमेषालिकं च । अलिरृश्चिकः एतानि लग्नानि हित्वा । गोश्वकुंभतुलाकन्यासिंहकर्कनृयुग्मृगाः । शुभदा राशयश्चैते न मेषझषवृश्चिका इति कश्यपोक्तेः षष्ठादिति षष्ठमासमारभ्य सममासे षष्ठाष्टमदशमद्वादशमासेषु बालानामन्नप्राशनं कार्यम् । पुंबालविषयमेतत् । अथानंतरं हि निश्चयेन मृगदृशां कन्यानां पंचमादोजमा से पंचमसप्तमनवमैकादशेषु अन्नप्राशनं सत् । तथा च वसिष्ठः । युग्मेषु मासेषु च षष्ठमासात्संवत्सरे वा नियतं शिशूनाम् । अयुग्ममासेषु च कन्यकानां नवान्नप्राशनमिष्टमेतदिति । अत्रानेककालाभिधानेऽपि स्वगृह्योक्तकालो मुख्यस्तत्र शुक्रास्तादिविचारो नास्ति । इतरेषु गौणकालेषु शुक्रास्तविचार आवश्यक एवेति नक्षत्रैरिति मृदुलघुचरसहितैः स्थिरनक्षत्रैः कुर्यात् ॥ १७॥ लग्नबलं वसंततिलकयाह केंद्रत्रिकोणसहजेषु शुभैः खशुद्धे लग्ने त्रिलाभरिपुगैश्च वदंति पापैः ॥ लग्नाष्टषष्ठरहितं शशिनं प्रशस्तं मैत्रां पानिलजनुर्भ मसच केचित् ॥ १८ ॥ केंद्रत्रिकोण इति ॥ लग्ने खशुद्धे दशमे शुद्धिसहिते सर्वग्रहरहिते दशमे इत्यर्थः । केंद्रत्रिकोणसहजेषु शुभैः सद्भिः त्रिलाभरिपुगैः पापैरसद्भिः लग्नाष्टषष्ठस्थानरहितं चंद्रं च अन्नप्राशने प्रशस्तं वदंति । नारदः । दशमे शुद्धिसंयुक्ते शुभलमे शुभांशके । शुक्लपक्षे च पूर्वाह्णे सौम्ययुक्तनिरीक्षिते ॥ त्रिषष्टलाभगैः पापैः केंद्रधीधर्मगैः शुभैः । व्यंत्यारिनिधनस्थेन चंद्रेण प्राशनं शुभम् || विशेषमाह गुरुः । शुक्रारज्ञाः क्रमाद्याताः सप्तमाष्टमधर्मगाः । भोज्यभोक्तुर्नवत्वे तु सर्वदा मरणप्रदा इति । भोज्यमन्नं गोधूमादि तस्य नवत्वेन भक्षणीयत्वे सति भोक्तुरन्नप्राशनकर्तुर्बालस्य नवत्वे सति वा शुक्रः सप्तमः भौमोऽष्टमः बुधो नवमः एते ग्रहाः मरणप्रदा इत्यर्थः । मैत्रेति । अनुराधाशततारका स्वातीजन्मनक्षत्राणि केचित् असद्वदंति । श्रीपतिना अनुक्तत्वादिति भावः । जन्मनक्षत्रनिषेधो गुरुणोक्तः । जन्मर्क्षे कर्मनक्षत्रे आधानर्क्षे च वर्जयेत् । कर्णवेधं तथा मानं क्षुरकर्मान्नभोजनमिति ॥ तत्रान्नस्य भोजनमन्नभोजनमिति व्युत्पत्त्या वार्षिकनवान्न भोजनविषयमेतत् न पुन - बलान्नप्राशनपरम् । तत्र नारदेनातिप्राशस्त्याभिधानात् । तथा च नारदः । पटबंधनचौलान्नप्राशने चोपनायने । शुभदं जन्मनक्षत्रमशुभं त्वन्यकर्मणीति ॥ १८ ' अथ ग्रहाणां स्थानवशात्फलान्यनुष्टुब्द्वयेनाह क्षीणेंदुपूर्णचंद्रे ज्यज्ञभौमार्कार्कि भार्गवः ॥ त्रिकोणव्यय केंद्राष्टस्थितैरुक्तं फलं ग्रहैः ।। १९ ॥ Aho! Shrutgyanam
SR No.034207
Book TitleMuhurt Chintamani Satik
Original Sutra AuthorN/A
AuthorRam
PublisherAnup Mishra
Publication Year1919
Total Pages248
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy