________________
संस्कारप्रकरणम् ।
९१
रिक्ताश्चासु तिथिषु च न शस्तम् । स्तन्यपानमुहूर्तं दैवज्ञवल्लभे । रिक्तां भौमं परित्यज्य विष्टि पातं सवैधृतिम् । मृदुध्रुवक्षिप्रभेषु स्तनपानं हितं शिशोरिति ॥ १२ ॥ अथ प्रसंगात्प्रथमादिमासोत्पन्नदंतफलं शार्दूलविक्रीडितेनाह
मासे चेत्प्रथमे भवेत्सदशनो बालो विनश्येत्स्वयं हन्यात्सकमतोऽनुजात भगिनीमात्रग्रजान् यादिके ॥ tarai लभते हि भोगमतुलं तातात्मुखं पुष्टतां लक्ष्मी सौख्यमथो जनौ सदशनो वोर्ध्वं स्वपित्रादिहा ॥ १३ ॥ मासे चेदिति ॥ बालश्वेज्जन्मानंतरं प्रथमे मासे सदशनो दंतयुक्तो भवेत् । तदा स्वयं बालो नश्येत् । ततो द्व्यादिके द्वितीयादिमासे अनुजातभगिनीमात्रग्रजान् क्रमाद्धंति । द्वितीये मासि यदि दंतोत्पत्तिस्तदाऽनुजातं कनिष्ठभ्रातरं हंति । एवं तृतीये भगिनीं चतुर्थे मातरं पंचमे ज्येष्ठभ्रातरं षष्ठादिमासेषु अतुलं भोगं लभते सप्तमे तातात् पितुः सुखम् अष्टमे पुष्टताम् नवमे लक्ष्मीम् दशमे सौख्यम् अग्रेऽपि सुखाधिक्यमेव । अथो इति । अथो नौ जन्मकाल एव सदशनः दंतयुक्तः स्वपित्रादिहा स्वमात्मानं पितरं च आदिशब्दामातरमपि नाशयतीति स्वपित्रादिहा । वोर्ध्वमिति । वा अथवा ऊर्ध्वं ऊर्ध्वपंक्तौ जन्मानंतरमविहिते निषिद्धेऽपि वा काले सदनशनश्चेत्स्यात् तदापि स्वपित्रादिहा आत्मपितृमातृनाशक इति । उक्तं च विष्णुधर्मोत्तरे । उपरि प्रथमं यस्य जायंते च शिशोर्द्विजाः । तैर्वा सह च यस्य स्याज्जन्म भार्गवसत्तम ॥ मातरं पितरं चाथ स्वदेहात्मानमेव चेति । तत्रैव शांतिरपि । गजष्टष्ठगतं बालं नौस्थं वा स्नापयेद्विजः । तदभावे तु धर्मज्ञ कांचने तु वरासने ॥ सर्वौषधैः सर्वगंधैर्बीजैः पुष्पैः फलैस्तथा । पंचगव्येन रत्नैश्च मृत्तिकाभिश्च भार्गव ॥ स्थालीपाकेन धातारं पूजयेत्तदनंतरम् । सप्ताहं चात्र कर्तव्यं तथा ब्राह्मणभोजनम् ॥ अष्टमेऽहनि विप्राणां तथा देया च दक्षिणा | कांचनं रजतं गाव भुवं वासनमेव चेति ॥ १३ ॥ अथ दोलाचक्रमनुष्टुभाह
I
I
दोलारोहेऽर्कभात्पंच शरपंचेषु सप्तभैः ॥
teri मरणं कायं व्याधिः सौख्यं क्रमाच्छिशोः ॥ १४ ॥ दोलेति ॥ तत्र बालस्य दोलायां रोहे दोलायां स्थापने अर्कभात् सूर्याक्रांतनक्षत्रात् पंच नक्षत्रैर्नैरुज्यं नीरोगता । तदग्रिमपंचनक्षत्रैर्मरणम् । तदग्रिमपंचनक्षत्रैर्देहे कार्यं कृशत्वं स्यात् । तदग्रिमैरिषुभिः पंचनक्षत्रैर्व्याधिः रोगः । ततः सप्त नक्षत्रैः सौख्यम् । शिशोरेवेदं फलं संस्कार्यत्वात् । उक्तं च । सूर्यभाच्चंद्रभं यावत् पंचपंच चतुर्दिशम् । मध्ये प् देयानि दोलिकाचक्र उत्तमे || पूर्वभागे निरोगत्वं दक्षिणे मरणं ध्रुवम् । पश्चिमे तु कृशो बाल उत्तरे व्याधिसंभवः । शेषेषु सप्त धिष्ण्येषु बालकः शयने सुखी ॥ १४ ॥
Aho! Shrutgyanam