________________
' मुहूर्तचिंतामणौ तज्जातकर्मादि शिशोविधेयं पर्वाख्यरिक्तोनतिथौ शुभेऽह्नि ॥ एकादशे द्वादशकेऽपि घस्ने मृदुध्रुवक्षिप्रचरोदुषु स्यात् ॥ ११ ॥
तज्जातकर्मादीति ॥ जातकर्म यद्यपि जन्मनोऽनंतरमेव विहितं तथापि संक्रांतिव्यतीपातादिदष्टदिवसतया पित्राद्यसन्निधाने च तन्न कृतं तदा मुहूर्तविचारेण कार्यम् । गर्गः । व्यतीपाते च संक्रांतौ ग्रहणे वैधृतावपि । श्राद्धं विना शुभं कर्म प्राप्तकालेऽपि नाचरेदिति ॥ अत एव कालविकल्प उक्तो नारदेन । तस्मिन् जन्ममुहूर्ते तु सूतकांते तथा शिशोः । जातकर्म च कर्तव्यं पितृपूजनपूर्वकमिति ॥ अत एव जातकर्मादीनि शिशोर्जातकर्म आदिशब्दान्नामकर्मोच्यते । पर्वाणि चतुर्दश्यष्टमीकृष्णेत्यादिपूर्वोक्तानि तैः रिक्ताभिश्च उनतिथौ वर्जिततिथौ शुभेऽह्नि शुभवारे तथा एकादशे द्वादशे वा घस्ने दिवसे तथा मृदुध्रुवक्षिप्रचरनक्षत्रेषु तदतिक्रांतं जातकर्मादि विधेयं कर्तव्यं स्यात् । तच्च श्रवणानंतरं सचैल स्नान कृत्वा कार्यम् । वसिष्ठः । श्रुत्वा जातं पिता पुत्रं सचैलं स्नानमाचरेत् । उत्तराभिमुखो भूत्वा नद्यां वा देवखातके ॥ तच्च शीतोदकेन । कुर्यान्नैमित्तिक स्नानं शीताभिः काम्यमेव चेति । रात्रावपि कार्यम् । वसिष्ठः । पुत्रजन्मनि यज्ञे च तथा संक्रमणे रवेः । राहोश्च दर्शने स्नानं प्रशस्तं नान्यथा निशीति ॥ सूतके तु समुत्पन्ने पुत्रजन्म यदा भवेत् । कर्तुस्ताकालिकी शुद्धिः पूर्वाशौचेन शुद्ध्यति ॥ रात्रौ जलाशये गमनाशक्तो सांख्यायनः । दिवा यदाहृतं तोयं कृत्वा स्वर्णयुतं तु तत् । रात्रिस्नाने तु संप्राप्ते स्नायादनलसन्निधाविति ॥ जातकर्मप्रयोजनमाह गुरुः । जातकर्मक्रियां कुर्यात्पुत्रायुःश्रीविऋद्धये । ग्रहदोषविनाशाय सूतकाशुभविच्छिदे ॥ कुमारग्रहनाशाय पुंसां सत्वविवृद्धय इति ॥ वसिष्ठः । एकादशेऽह्नि विप्राणां क्षत्रियाणां त्रयोदशे। वैश्यानां षोडशे नाम मासांते शूद्रजन्मन इति । वसिष्ठेन मासनामान्युक्तानि । चैत्रादिमासनामानि वैकुंठोऽथ जनार्दनः । उपेंद्रो यज्ञपुरुषो वासुदेवस्त्रिविक्रमः॥ योगीशः पुंडरीकाक्षः कृष्णोऽनंतो ऽच्युतस्तथा । चक्रधारीति चैतानि क्रमादाहुर्मनीषिण इति ॥ ११॥ अथ सूतिकास्नानमुहूर्तं वसंततिलकयाह
पौष्णधुवेंदुकरवातहयेषु सूतीस्नानं समित्रभरवीज्यकुजेषु शस्तम् ॥ ना त्रयश्रुतिमघांतकमिश्रमूल
त्वाष्ट्रे ज्ञसौरिवसुषविरिक्ततिथ्याम् ॥ १२ ॥ पौष्णेति ॥ हयोऽश्विनी एषु रेवत्यादिनक्षत्रेषु समित्रभरवीज्यकुजेषु अनुराधानक्षत्रसूर्यगुरुभौमवारसहितेषु सूत्याः प्रसूतायाः स्त्रियाः स्नानं शस्तम् । आात्रयश्रवणमघाभरणीमिश्रमूलचित्रासु न शस्तम् । बुधवारे शनिवारे वसुरष्टमी पट् षष्ठी रविादशी
Aho! Shrutgyanam