________________
मुहूर्तचिंतामणी
हरिहस्तानुराधाश्च स्वाती वारुणवासवम् । उत्तरात्रितयं सौम्यं रोहिणी च शुभाः स्मृताः ॥ आधा मूलसापत्यमशुभं सममन्यभमिति ॥ ६ ॥ अथ गर्भाधाने लग्नमिंद्रवज्जयाह
८८
केंद्रत्रिकोणेषु शुभैश्च पापैख्यायारिगैः पुंग्रहदृष्टलग्ने ॥ ओजांशs जेsपि चयुग्मरात्रौ चित्रादितीज्याविषु मध्यमं स्यात् ७ केंद्रेति ॥ शुभैः केंद्रत्रिकोणेषु सद्भिः पापग्रहैरुयायारिगैः सद्भिः पुंग्रहैः रविभौमगुटेलने सति तथाऽब्जे चंद्रे ओजांशगे विषमराशीनां नवांशगे सति अपिशब्दाछनेऽपि विषमांशगे युग्मरात्रौ समरात्रौ गर्भाधानं कार्यम् । मध्यमभान्याह । चित्रादितीज्याश्विषु तद्गर्भाधानं मध्यमं स्यात् । गुरुः । चित्रादित्ये तथातिष्यतुरगौ चेति मध्यमाः । शेषाण्यृक्षाणि दुष्टानि स्युर्निषेकाख्यकर्मणीति । एवं गर्भाधानं विधाय पुंसा किं कार्यमित्याह । विष्णुः । निद्रासमयमासाद्य तांबूलं वदनात्त्यजेत् । पर्यकात्प्रमदां भालात्पुंडूं पुष्पाणि मस्तकात् ॥ इति गर्भाधानम् ॥ ७ ॥ .
अथ सीमंतोन्नयनं शार्दूलविक्रीडितेनाह
जीवाकरदिने मृगेज्य निर्ऋतिश्रोत्रादितिव्रनभै रिक्तामार्करसाष्टवर्ण्यतिथिभिर्मासाधिपे पीवरे ॥ सीमंतोऽष्टमषष्ठमासि शुभदैः केंद्र त्रिकोणे खलैभारित्रिषु वा ध्रुवत्यसदहे लग्ने च पुंभांशके ॥ ८ ॥
जीवार्केति ॥ गुरुरविभौमवारे निऋतिर्मूलं ब्रनभं हस्तः एतैर्नक्षत्रैः रिक्ता ४, ९, १४ अमा ३० अर्को १२ रसाः ६ अष्ट अष्टमी आभिर्वर्ण्यतिथिभिः उपलक्षिते दिने मासाधिपे पीवरे पुष्टे सतीत्यर्थः । एतादृशसमये अष्टमषष्ठमासि अष्टममासे षष्ठमासे वा सीमंतः सीमंतकर्माख्यो गर्भसंस्कारः कार्यः । तत्र शुभग्रहैः केंद्र त्रिकोणे सद्भिः खलैः पापैः लाभारित्रिषु सद्भिः पुंभांशके लग्ने पुरुषराशौ विषमराशौ लग्ने नवांशे च विषमराशौ सति तदा सीमंतः शुभः । अत्र विशेषमाह कश्यपः । चंद्रोऽपि शुभदो ज्ञेयस्त्यक्त्वा षष्ठाष्टमव्ययान् । सीमंतलग्नादेकोऽपि क्रूरः पंचाष्टरिःफगः ॥ हंति सीमंतिनीं सोऽपि तद्गर्भं वा न संशयः । न नैधने तयोर्लने नैधने शुद्धिसंयुते ॥ तयोः स्त्रीपुंसयोः । अस्यापवादः । लग्नादष्टमराशीशः केंद्रगः शुभवीक्षितः । यद्यप्यष्टमभस्योक्तं दोषमाशु व्यपोहति । गर्गः । सीमंतोन्नयनं कार्यं शुभांशे शुभलगे । कुलीररकन्याश्च वर्ज्याः शेषाश्च शोभना इति । अत्र ग्रहबले सति कुलीरमिथुनकन्या अपि ग्राह्या इति ज्ञेयम् । अतएव मूले 'लग्नविचारो न कृतः । कारिकायाम् । पुन्नक्षत्राणि चैतानि तिप्यो हस्तः पुनर्वसुः । अभिजित्प्रोष्ठपाञ्चैव
Aho! Shrutgyanam