________________
संस्कारप्रकरणम् ।
हस्तानिलाश्विमृगमैत्रव सुध्रुवाख्यैः शान्वितैः शुभतिथौ शुभवासरे च ।। स्नायादथातववती मृगपांष्णवायु
हस्ताश्विधातृभिररं लभते च गर्भम् ॥ ४ ॥
हस्तानिलेति ॥ एषु एकादश नक्षत्रेषु शुभतिथौ रिक्तामारहिततिथौ शुभवारे चंद्रबुधगुरुशुक्रवारे । आर्तववती ऋतुमती स्त्री स्त्रायात् । अथ विशेषमाह । मृगेति । मृगरेवतीस्वातीहस्ताश्विनीरोहिणीनक्षत्रैः स्नाता ऋतुमती अरं शीघ्रं गर्भं लभते । लघुक्षिप्रमरं द्रुतमित्यमरोक्तेः। दाक्षिणात्यास्तु चतुर्थदिवस एव स्नानं कुर्वेति । अन्ये विहितदिने कुर्वति तत्र देशाचारतो व्यवस्थेति ॥ ४ ॥
अथ गर्भाधानं शार्दूलविक्रीडितशालिनीभ्यामाह
गंडांतं त्रिविधं त्यजेन्निधनजन्मर्क्षे च मूलांतकं दात्रं पौष्णमघोपरागदिवसान् पातं तथा वैधृतिम् । पित्रोः श्रादिनं दिवा च परिघाद्यार्धं स्वपत्नीगमे भान्युत्पातहतानि मृत्युभवनं जन्मर्क्षतः पापभम् ॥ ५ ॥ गंडांतमिति ॥ अत्र स्वपत्नीगमे गर्भाधाने एतान् दोषांस्त्यजेदिति संबंधः । एतान्कान्कान् त्रिविधं तिथिनक्षत्रलग्नानां गंडांतं । श्रीपतिः । नक्षत्रतिथिलग्नानां गंडांतं त्रिविधं स्मृतम् । नवपंचचतुर्थानां द्व्येकार्धघटिकामितमिति । निधनजन्मर्क्षे निधनतारां जन्मतारां च मूलं अंतकं भरणीं दास्त्रमश्विनीं पौष्णं रेवतीं मघां उपरागदिवसं ग्रहणदिनं पातं व्यतीपातं महापातं च वैधृतिं पित्रोः मातापित्रोः श्राद्धदिनं दिवा दिवसे परिघयोगस्याद्यार्धं उत्पातहतानि दिव्यभौमांतरिक्षैस्त्रिविधोत्पातैर्हतानि दूषितानि भानि जन्मर्क्षतः जन्मराशेर्जन्मलग्नाद्वा मृत्युभवनमष्टमलनं पापयुतं भं नक्षत्रं लग्नं वा ५ ॥
भद्रा षष्ठी परिक्ताश्च संध्या भौमार्कार्की नाद्यरात्रीश्चतस्रः ॥ गर्भाधानं syriah मैत्रब्रह्मस्वातीविष्णुवस्वंबुपे सत् ॥ ६ ॥
८७
भद्रा षष्ठीति ॥ पर्वाणि विष्णुपुराणे । चतुर्दश्यष्टमी चैव अमावास्या च पूर्णिमा । पर्वाण्येतानि राजेंद्र रविसंक्रांतिरेव चेति । स्कांदे तु । कृष्णाष्टमीचतुर्दश्यौ पूर्णिमा दर्शसंक्रम इति । संध्याद्वयं भौमसूर्यशनिवारान् आद्यरात्रीः रजोदर्शनमारभ्य दिनचतुष्टयं त्यजेत् । कालविधाने । षष्ठयष्टमीं पंचदशीं चतुर्थी चतुर्दशीमप्युभयत्र हित्वा । शेषाः शुभाः स्युस्तिथयो निषेके वाराः शशांकार्यसितेंदुजानामिति । गर्भाधानमिति । त्र्युत्तराः इंदुर्मृगः अर्को हस्तः मैत्रमनुराधा रोहिणी स्वाती श्रवणधनिष्ठाशततारकासु गर्भाधानं सत् शुभम् । गुरुः ।
1
Aho! Shrutgyanam