________________
गोचरप्रकरणम् । गोमेदवैदूर्यकमर्कतः स्यू रत्नान्यथो ज्ञस्य मुदे सुवर्णम् ॥ १० ॥
माणिक्योति ॥ सूर्यप्रीत्यर्थ माणिक्यं धार्यम् । एवं चंद्रस्य मुक्ताफलम् । भौमस्य विद्रुमं प्रवालम् । बुधस्य गारुत्मकं गरुडः पाचिः । गुरोः पुष्पकं पुष्पराजः । शुक्रस्य वजं हीरकः । शने!लं लहसुणिया । राहोर्गोमेदम् । केतोर्वेदूर्यमित्येवमर्कतोऽर्कादीनां ग्रहाणां रत्नानि धार्याणि स्युः । तत्र यगृहकृतदौष्टयं तस्य ग्रहस्य तुष्टयै तद्रत्नमेव धार्यमित्यर्थः । अथो ज्ञस्य मुदे सुवर्णमित्यग्रिमश्लोकेन संबंधः ॥ १० ॥
अथ महामूल्यरत्नधारणस्यासामर्थेऽल्पमूल्यानि रत्नानि ताराबलं च शालिन्याहधार्य लाजावर्तकं राहुकेत्वो रौप्यं शुक्रंदोश्च मुक्ता गुरोस्तु॥ लोहं मंदस्यारभान्वोः प्रवालं ताराजन्मात्रिरावृत्तितः स्यात् ११
धार्यमिति ॥ अथो ज्ञस्य बुधस्य मुदे संतोषार्थ सुवर्ण यथाशक्ति धार्यम् । राहुकेत्वोस्तुष्टचै लाजावर्तकं मणिविशेषो धार्यः । शुक्रेद्वोस्तुष्टचै रूप्यम् । गुरोस्तुष्टचै मुक्ताफलम् । शनेस्तुष्टयै लोहम् ।आरभान्वोस्तुष्टयै प्रवालं धार्यम् । तारेति । यद्दिने ताराबलं चिकीपितं तद्दिने या तारा सा जन्मनक्षत्रात् त्रिरावृत्तितः पुनःपुनरावृत्तित्रयेण गणनीया स्यात् । त्रिरिति सुजतमव्ययम् । जन्मनक्षत्रादिननक्षत्रे गणिते नवभिर्भक्ते तिस्त्र आवृत्तयो भवंति । अवशिष्टतारायाः शुभमशुभं च व्याख्यातमिति फलितोऽर्थः ॥ ११ ॥ अथ शेषक्रमेण सकलास्तारासंज्ञा अनुष्टुभाह
जन्माख्यसंपद्विपदः क्षेमप्रत्यरिसाधकाः ॥
वधमैत्रातिमैत्राः स्युस्तारा नामसक्फलाः ॥ १२ ॥ जन्माख्योति ॥ स्पष्टोऽर्थः ॥ १२ ॥ अथा वश्यकृत्ये दुष्टताराणां प्रकारद्वयेन परिहारं शार्दूलविक्रीडितेनाह
मृत्यौ स्वर्णतिलान्विपद्यपि गुडं शाकं त्रिजन्मस्वथो दद्यात्प्रत्यरितारकासु लवणं सर्वो विपत्प्रत्यरिः॥ मृत्युश्चादिमपर्यये न शुभदोऽथैषां द्वितीयेंऽशकानादिप्रांत्यतृतीयका अथ शुभाः सर्वे तृतीये स्मृताः ॥ १३ ॥ मृत्यौ स्वर्णतिलानिति ॥ मृत्यौ वधतारायां स्वर्णतिलान् यथाशक्ति ब्राह्मणाय दद्यात् । विपदि विपत्तारायां गुडमिक्षुविकारं दद्यात् । त्रिजन्मसु तिसृषु जन्मतारासु शाकं वृताकादि दद्यात् । अथो प्रत्यरितारकासु पंचमतारायां लवणं दद्यात् । नारदः । जन्मत्रिपंचसप्ताख्या तारानिष्टफला स्मृता । शाकं गुडं च लवणं सतिलान् कांचनं क्रमाम् ॥ अनिष्टपरिहाराय दद्यादानं द्विजातय इति । अथ द्वितीयः परिहारः । तत्रादिमपर्यये प्र
Aho ! Shrutgyanam