________________
मुहूर्तचिंतामणौ विष्णुक्रांतां शतावरीम् । एलां च सहदेवी च निशाद्वितयमेव च ॥ दूर्वांकुरोशीरशमीशिलाजित्सर्वार्थसर्वौषधिपंचमृद्भिः । स्नानं विदध्याद्रहणे रवींद्वोः पीडाकरं शांतिवहं च यस्येति॥६॥ अथ चंद्रबले विशेषमनुष्टुप्छंदसाहपापांतः पापयुग्छूने पापाचंद्रः शुभोऽप्यसन् ॥
शुभाशे वाधिमित्रांशे गुरुदृष्टोऽशुभोऽपि सन् ॥७॥ पापांत इति ॥ शुभफलदोऽपि चंद्रः पापांतः पापद्वयमध्यवर्ती पापयुक् पापग्रहयुक्तः पापात् छूने सप्तमे वर्तमानस्तदा शुभोऽपि असन् अशुभ एव । यदा त्वशुभोऽपि चंद्रः शुभांशे शुभग्रहनवांशे अथवाधिमित्रनवांशे तथा गुरुणा दृष्टः सन् शुभफलदाता भवेत् ॥७॥ अन्यदप्यनुष्टुभाहसितासितादौ सदुष्टे चंद्रे पक्षौ शुभावुभौ ॥
व्यत्यासे चाशुभौ प्रोक्तो संकटेऽजवलं त्विदम् ॥ ८॥ सितेति ॥ शुक्लपक्षादौ प्रतिपदि समीचीनचंद्रे सति संपूर्णः शुक्लः शुभः। असितादौ कृष्णपक्षप्रतिपदि दुष्टे चंद्रे सति संपूर्णः कृष्णः शुभः । व्यत्यासे च पूर्वोक्तादर्थाद्वैपरीत्ये द्वावपि पक्षावनिष्टौ । यदाशुक्लप्रतिपदि चंद्रो दुष्टश्चेत्तदा सकलपक्षोऽनिष्टः । कृष्णप्रतिपदि चंद्रः शुभश्चेत्तदा संपूर्णः कृष्णपक्षोऽनिष्टः । इदमेतावत् अब्जबलं चंद्रबलं संकटे विवाहयात्रादौ अवश्यकर्तव्ये तात्कालिकचंद्रबलाभावे च ग्राह्यम् नान्यथेत्यर्थः ॥८॥ ___ अथ ग्रहदौष्टयपरिहारपूर्वकं तुष्टिसंपादनार्थ नवरत्नसमुदायधारणं शालिन्याहवज्रं शुक्रेऽब्जे सुमुक्ताप्रवालं भौमेऽगौ गोमेदमामे सुनीलम् ॥ केतौ वैदूर्य गुरौ पुष्पकं ज्ञे पाचिः प्राङ्माणिक्यमर्के तु मध्ये ॥९॥
वज्रमिति ॥ अत्र सुवर्णमुद्रिकायां नवधा भक्तायां प्रागादिक्रमेण नवरत्नानि निधेयानि । तत्र प्रागिति पंचम्यंतमव्ययम् । पंचमी चेयं ल्यब्लोपे । तेन प्रागादिदिक्त इत्ययमर्थो जातः । तत्र शुक्रप्रीतये पूर्वस्यां दिशि वजं श्वेतहीरकं निधेयम् । एवं चंद्रप्रीतये सुमुक्ता शोभनमुक्ताफलमाग्नेय्याम् । भौमप्रीत्यर्थ दक्षिणस्यां प्रवालम् । अगौ राहौ नैर्ऋत्यां गोमेदम् । आर्को शनी पश्चिमायां शोभनं नीलम् । केतौ वायव्यां वैदूर्यम् । गुरौ उत्तरस्यां पुष्पकं पुष्पराजम् । बुधे ईशान्यां पाचिः । मध्ये मध्यमकोष्ठे अर्कप्रीत्यै माणिक्यं निधेयम् ॥ ९॥ __ अथ सति सामर्थ्य नवरत्नसमुदायधारणमुक्तं इदानीमसति सामर्थ्य यद्गृहकृतदौष्टयं तबहरत्नधारणमिंद्रवज्रयाहमाणिक्यमुक्ताफलविद्रुमाणि गारुत्मकं पुष्पकवज्रनीलम् ॥
Aho ! Shrutgyanam