________________
३३
॥ आधाकर्मनिरूपणम् ॥ अत्तीकरेइ कम्मं पडिसेवादीहि तं पुण इमेहि।
तत्थ गुरू आदिपयं लहु-लहु-लहुगा कमेणियरे॥१३४॥ अत्तीकरेति गाहा। व्याख्या- आत्मीकरोति कर्म प्रतिसेवनादिभिस्तत् पुनरेभिः वक्ष्यमाणलक्षणैः, तत्र गुरु आदिपदं प्रतिसेवनालक्षणम्, 'लहु-लहु-लहुगा कमेणेतरे'त्ति प्रतिश्रवणसंवास-अनुमोदनाद्वाराणीति गाथार्थः॥१३४॥ . पडिसेवर्णमाईणं दाराणऽणुमोयणाऽवसाणाणं।
अहसंभवं सरूवं सोदाहरणं पवक्खामि॥१३५॥ पडिसेवण० गाहा। व्याख्या- प्रतिसेवनादीनां द्वाराणामनुमोदनाऽवसानानां 'अहसंभवं'ति यथासम्भवं स्वरूपं चैतेषां सोदाहरणं प्रवक्ष्यामीति गाथार्थः॥१३५॥
अण्णेणाऽऽहाकम्मं उवणीयं असइ चोइओ भणइ।
परहत्थेणंगारे कहूंतो जह न डज्झति हु॥१३६॥ अण्णेण गाधा। व्याख्या- अन्येन साधुना आधाकर्म उपनीतं 'असतित्ति अनाति = भुङ्क्ते। तथाऽन्येन साधुना “अकृत्यमेतदिति चोदितो भणति, किम् ? परहस्तेनाऽङ्गारान् कर्षन् यथा न दह्यते॥१३६॥
एवं खु अहं सुद्धो दोसो देंतस्स कूडउवमाए।
समयत्थमजाणतो मूढो पडिसेवणं कुणइ॥१३७॥ एवं खु गाहा। व्याख्या- एवमेवऽहं शुद्धो, दोषो ददतः = यो मे आधाकर्म ददाति, 'कूडउवमाए'त्ति एवम्भूतया मूर्योपमया, अन्ये तु व्याचक्षते कूटोपमयेति यथा कूटन्यासकारिणो व्याधस्य दोषो भवति न तु तत्र पततोऽपि मृगस्य, एवं ममाऽपि भुञानस्य को दोष ? इत्येवम्भूतयोपमया समयार्थं = सिद्धान्तार्थम्, अजानानो यथा- 'क्लिष्टपरिणामादेर्बन्ध' इति मूढः प्रतिसेवनां करोति आधाकर्मण इति गाथार्थः॥१३७॥ एवं सामान्येन प्रतिसेवनोक्ता। अधुना प्रतिश्रवणोच्यते, तत्र च
उवओगम्मि य लाभं कम्मग्गाहिस्स चित्तरक्खट्ठा।
आलोइए सुलद्धं भणइ भणंतस्स पडिसुणणा॥१३८॥ उवयोगम्मि य गाधा। व्याख्या- उवयोगे क्रियमाणे, किम् ? लाभं भणतीति योगः, किमर्थम् ? इत्यत आह-कर्मग्राहिणः साधोश्चित्तरक्षार्थम्, तथा आलोचिते = निवेदिते, सुलब्धं भणति, एवं भणतः सतः, किम् ? प्रतिश्रवणेति गाथार्थः॥१३८॥ (टि०) १.०वणादिगाणं खं०॥ २. यथासम्भवमिति स्वरूपं जि१॥ ३. कहेंतो खं० जे२॥ ४. वड्डेइ वा१॥ ५. उ खं॥ ६. रानाकर्षयन् जि० जि१॥ ७. दोसं जे१॥८. ०भूत यो मो० जि० जि१॥