________________
॥ सवृत्तिपिण्डनिर्युक्तिः ॥
आहाकम्मपरिणओ फासूयमवि संकिलिट्ठपरिणामो । आदिर्यमाणो बज्झइ तं जाण अत्तकम्म तु॥१२९॥
आहाकम्म० गाहा। व्याख्या - आधाकर्म्म एतद् इति एवं परिणतः प्रा सङ्क्लिष्टपरिणामः 'आतियमाणो 'त्ति गृण्हन् भुञ्जानो वा बध्यते, यद् एवम्भूतं तत् जानीहि आत्मकर्म्म, आत्मनि कर्म्म = आत्मकर्मेति गाथार्थः ॥१२९॥
३२
परकम्म अत्तकम्मीकरेइ तं जो उ गिहिउं भुंजे ।
एत्थ भवे परकिरिया कहण्णु अण्णत्थ संकमइ ? ॥ १३० ॥
परकम्म गाहा । व्याख्या- परकर्म = परक्रिया ज्ञानावरणादि वा, आत्मकर्म्म करोति (कः ?) इत्याह- तद् य एव गृहीत्वा भुङ्क्ते । अत्र ( भवेद्) आशङ्का, किं विशिष्टा ? – परक्रिया परकर्म्म कथं त्वन्यत्र सङ्क्रामति ? नैवेति गाथार्थः ॥१३०॥
=
कूडउवमाए केती परप्पउत्तेवि बेंति बंधो त्ति ।
भणइ य गुरू पमत्तो बज्झइ कूडे अदक्खो य ॥ १३१ ॥
कूड० गाहा। व्याख्या– कूटोपमया केचन आचार्य्यदेशीयाः परप्रयुक्तेऽपि ब्रुवते बन्ध इति, यथा किल व्याधेन प्रयुक्ते कूटे हरिणस्य बन्धो न तस्येति । भणति गुरुस्तु अत्र परिहारम्, यथा प्रमत्तो बध्यते कूटे अदक्षश्च। ततश्च अशुभभावो बन्धकारणम्, स च तस्य अस्ति, अतः कर्तृवद् बध्यते इति कृत्वोच्यते परकर्म्मात्मीकरोति उपचारादिति भावार्थः ॥ तथा चाह
एमेव भावकूडे बज्झइ जो असुभभावपरिणामो । तम्हा तु असुभभावो वज्जेयव्वो पयत्तेणं ॥ १३२ ॥
"एमेव गाहा। व्याख्या - एवमेव भावकूटे प्रक्रान्ते बध्यते यो अशुभभावपरिणामो, यस्मादेवं तस्मादशुभभावो वज्जेयव्वो पयत्तेणं ति गाथाद्वयार्थः॥१३१-१३२॥
आह- स आधाकर्मग्राही तत् स्वयं न करोति, न च तत् कृतं अकृतं भवति, ततश्च तद्ग्रहणे को दोष इति ? अत्रोच्यते
कामं सयं न कुव्वइ जाणंतो पुण तहावि तग्गाही । वड्ढेइ तप्पसंगं अगिण्हमाणो उ वारेइ ॥ १३३॥
कामं सयं गाहा। व्याख्या - कामं अनुमताऽर्थे, स्वयं आत्मना न करोति । जानानः पुनर्यथा “इदमाधाकर्मे” ति तथाऽपि तद्ग्राही = आधाकर्म्मग्राही, किम् ? वर्द्धयति तत्प्रसङ्गम् = ग्रहणप्रसङ्गम्, अगृण्हंस्तु वारयतीति गाथार्थः॥१३३॥
'कर्मकारण
(टि०) १. ०यमणा खं० ॥ २. ०म्मंति खं० ॥ ३. तत्थ खं० विना ॥ ४. ०रू उ पम० जे२ ॥ ५. ०चारेणेति जि१ ॥ ६. एवमेव ला० ॥ ७. य जे१ ॥ ८. कर्मकरणप्रस० ला०॥ कर्मकरणग्रह० जि१ ॥ ९ ०ण्हन् सत् वा० ला० विना ॥