________________
॥ आधाकर्मनिरूपणम् ॥ जाणंतमजाणंतो गाहा। व्याख्या- जानानो- या अकल्पनीयं साधूनां आधाकर्म, अजानानोऽन्यथा, किम् ? तहेव णिदिसिय ओहओ वावि - निर्दिश्य एकं द्वौ त्रीन् वा साधून, ओघतः = सामान्येनैव, जाणग अजाणगे य वधेइ इदं वध्यसत्त्वविशेषणमेव, ‘अणिदा णिदा एस' त्ति इदमनयोः स्वरूपमिति गाथार्थः॥१२५॥ इत्थं सामन्येन आत्मघ्नमभिधाय अधुना द्रव्य-भावभेदतो विशेषेणाभिधित्सुराह
दव्वाया खलु काया भावाया तिण्णि णाणमादीणि।
परपाणपाडणरतो चरणातं अप्पणो हणइ॥१२६॥ दव्वाता खलु काता गाहा। व्याख्या- द्रव्यात्मानः, खलुशब्दो विशेषणे, अस्मिन् प्रक्रमे न पुनरन्यत्राऽपि, किम् ? कायाः = पृथिव्यादयः, भावात्मानो भवन्ति ज्ञानादीनि - ज्ञान-दर्शनचारित्राणि। प्रकृतयोजनां करोति- परप्राणपातनरतः, किम् ? चरणात्मानं भावरूपं आत्मनः सम्बन्धिनं हन्ति = व्यापादयतीति गाथार्थः॥१२६॥
आह- ज्ञानात्मानं दर्शनात्मानं च व्युदस्य किमर्थं चरणात्मानं आत्मनो हन्तीति उक्तम् ? इत्यत्रोच्यते
निच्छयनयस्स चरणायविग्याए णाण-दसणवहो वि।
ववहारस्स तु चरणे हयंमि भयणा उ सेसाणं॥१२७॥ णिच्छयणय० गाहा। व्याख्या- निश्चयनयस्य चरणात्मविघाते ज्ञान-दर्शनवधोऽपि, तयोश्चरणफलत्वात्, फलाऽभावे च हेतोर्निरर्थकत्वादिति भावना। व्यवहारस्य तु चरणे हते सति भजना शेषयोः ज्ञान-दर्शनयोः कदाचिद् घातो भवति कदाचिन्नेति। यस्य तदावरणोदयोऽपि विशिष्टस्तस्य भवति, अन्यस्य न भवतीति गाथार्थः॥१२७॥ उक्तं आत्मघ्ननाम। अधुना आत्मकर्मोच्यते- तच्च द्विधा द्रव्यतो भावतश्च। तथा चाह
दव्वंमि अत्तकम्मं जं जो तु ममायते भवे दव्वं।
भावे असुभपरिणओ परकम्मं अत्तणो कुणइ॥१२८॥ दव्वंमि गाहा। व्याख्या- द्रव्ये अधिकृते विचार्य्य तद्विषयं वा, आत्मनि कर्म = आत्मकर्म भवतीति योगः। यत् किञ्चिद् यः कश्चित् ‘ममायते'त्ति ममीकरोति द्रव्यं तद् द्रव्यात्मकर्म। भावे तु आधाकर्मणो ग्रहणादि कुर्वन् अशुभपरिणतः, किम् ? परकर्म = परक्रियाम्, आत्मनि करोतीति गाथार्थः॥१२८॥ अमुमेवार्थं स्पष्टयन्नाह(टि०)१. ०था न कल्प० जि१॥२. द्वौ त्रयो वा साधूनां जि१॥ ३. व्यती जे२॥ ४. ममीय० जि१॥५. सूचयन्नाह जि१॥ (वि० टि०).. यस्य व्यक्तिनः तदावरणोदयोऽपि = चारित्रावरणोदयोऽपि विशिष्टः तस्य व्यक्तिनः शेषयोर्घातो भवति कण्डरिकवत्। अन्यस्य व्यक्तिन यस्य चारित्रावरणोदयो विशिष्टो न भवति तस्य व्यक्तिनः शेषयोः ज्ञान-दर्शनयोर्घातो न भवति नन्दिषेणवद् इत्याशयः॥