________________
॥ सवृत्तिपिण्डनिर्युक्तिः ॥
चरणाग्रोऽपि आधाकर्म्मग्राही, किम् ? अधो अधो णेति अप्पाणं = भावात्मानमिति गाथार्थः ॥१२१॥ इतरमप्यऽधिकृत्याह
बंधइ अहे भवाउं पकरेइ अहोमुहाई कम्माई ।
२
घणकरणं तिव्वेण तु भावेणं चओ उवचओ ये ॥ १२२ ॥
बंधइ गाहा। व्याख्या– बध्नाति अधो नरकादिषु भवायुष्कं । तथा प्रकरोति अधोमुखानि शेषाण्यपि कर्माणि । तथा 'घणकरणं' इत्यादिना भगवत्यालापकान् सूचयति । तीव्रेण तु भावेन तद्ग्रहणं कुर्वन् चयः उपचयश्चेति एतदपि भगवत्यालापसूचकमेव । तथा च किल तत्रालापकाः
" आधाकम्मं णं भुंजमाणे समणे णिग्गंथे अट्ठकम्मपगडीओ बंधइ,
अधे बंधति, अधे पकरेति, अधे चिणति, अधे उवचिणती" [भग० ७ / ८ / २९७ ] इत्यादि गाथार्थः॥१२२॥
३०
सिं गुरूण उदएण अप्पयं दुग्गतीए पवडतं ।
ण चएति विधारेउं अहरगतिं णेंति कम्माई ॥ १२३ ॥ दारं ॥
तेसिं गुरूण उदएण गाहा । व्याख्या - तेषां कर्माणां गुरूणां = रौद्राणां उदयेन, किम् ? आत्मानं = जीवं दुर्गतौ प्रपतन्तम्, किम् ? न शक्नोति विधारयितुम्, केन कारणेन ? इत्यत्राह'अधरगतिं 'नेंति'त्ति अधोगतिं नयन्ति = प्रापयन्ति कर्माणि । अतो भावाधः कर्मतेति गाथार्थः ॥ १२३॥ उक्तमधःकर्म्मनाम। अधुना आत्मघ्नमुच्यते । तदपि द्रव्य - भावभेदभिन्नमेव अन्यथा प्रतिपादयिष्यति।
तत्र
अट्ठाए अणट्ठाए छक्कायपमद्दणं तु जो कुणइ ।
अणिदाए य णिदाए आताहम्मं तयं बेंति ॥ १२४॥
अट्ठाए गाहा। व्याख्या– 'अट्ठाए' त्ति प्रथम - द्वितीयपरिषहार्त्तः, 'अणट्ठाए'त्ति यथाकथञ्चिदेव, अथवा साधूनां प्रयोजनमधिकृत्य एहिकमर्थाय अनधिकृत्य अनर्थायेति, किम् ? च्छक्कायपमद्दणं तु जो कुणति, वधमित्यर्थः, कथम् ? 'अणिदाए य णिदाए'त्ति तत्र समवसरणादौ सर्व्वानेव अधिकृत्य अनिदा, निदा तु एकं द्वौ वाधिकृत्येति, अथवा अन्यथा वक्ष्यते । आत्मघ्नं तकं ब्रुवते, पूर्व्वाचार्या इति गम्यते । आत्मानं हन्तीति आत्मघ्नमिति गाथार्थः ॥ १२४ ॥
जाणंतमजाणंतो तहेव निद्दिसिय ओहओ वावि ।
जाणगमजाणगे वा वहेइ अणिदा णिदा एसा ॥ १२५ ॥
(टि०) १. अह भ० जे१ ॥ २. उ जे२ ॥ ३. निंति० जि१ ॥ ४. तावान् जि१ ।। ५. ०णंता खं० ॥ ६. अणिदा एसा जे१ को० वा१ ॥
(वि०टि० ) . इतरं = अनुपचारमित्यर्थः ॥