________________
२८
॥ सवृत्तिपिण्डनिर्युक्तिः ॥
धणु - जुग - काय - भराणं कुडुंब - रज्जुधुरमादियाणं च । खंधादी हिदयम्मि य दव्वाधा अंतए धणुणो ॥ १११ ॥
धणु-जुग गाहा। व्याख्या- धनुर्युग- - काय-भराणां कुटुम्ब - राज्यधूः प्रभृतीनां च स्कन्धादौ इति, तद्यथा - युगस्य कायस्य च स्कन्धः, कायः = कापोती, भरस्य गन्त्र्यादि, कुटुम्ब-राज्यधूःप्रभृतीनां हृदयम्। तथा च हृदये आहिता कुटुम्बधूरुह्यते, चशब्दो बाह्यवस्तुसमुच्चयार्थः। इयं द्रव्याऽऽधा वर्त्तते, अन्ते धनुषः यस्मात् तदन्त एव कोटावाधीयत इति गाथार्थः॥१११॥
भावाधा— यमाधाय पाकं करोति, यथा देवदत्तायेदं देयमिति । तथा चाहओरालसरीराणं उद्दवण तिवायणं तु जस्सट्ठा ।
मणमाहित्ता कुव्वति आहाकम्मं तयं बेंति ॥ ११२ ॥
ओराल० गाधा। व्याख्या- उदारशरीराणां तिर्यग् - मनुष्याणामथवा सूक्ष्मरहितानां अवद्रावणम् = अतिपातविवर्जिता पीडा, त्रिपातनं तु - त्रयः काय - वाग्- मनोयोगा उच्यन्ते, अथवा देहः, आयुः प्राणाइन्द्रियप्राणाश्च। ततः स्वामित्वविवक्षया त्रयाणां पातः = त्रिपातः, अपादानविवक्षया त्रिभ्यो वा पातः = त्रिपातः, करणविवक्षया त्रिभिः पातः = त्रिपातः, तं त्रिपातं च यस्यार्थाय = यदर्थं मनः आधाय करोति आधाकर्म्म तकं ब्रुवते पूर्व्वाचार्य्या इति गाथार्थः॥११२॥ ओरालग्गहणेणं तिरिक्ख - मणुयाऽहवा सुहुमवज्जा । उद्दवणं पुण जाणसु अतिवायविवज्जियं पीडं ॥११३॥ काय - वइ-मणो तिण्णि उ अहवा देहा - ऽऽउ - इंदियप्पाणा । सामित्तं-अवादाणे होइऽतिवाओ तु (? च) करणेसु ॥११४॥ हिदयम्मि समाउं एगमणेगं व गाहगं जो उ ।
"वहणं करेड़ दाता कायाण तमाहकम्मं तु । । ११५ ॥
ओरालग्गहणेणं गाहा । काय वइ-मणो तिण्णि उ गाहा । हिययम्मि समाहेउं गाहा । एता उक्तार्था एवेति न प्रतन्यन्ते॥११३-११५॥
उक्तमाधाकर्म्मनाम। अधुना अधः कर्म्म तदपि द्विविधं द्रव्यतो भावतश्च । तत्र द्रव्यतः प्रतिपादयन्नाह— जं दव्वं उदगादिसु छूढमहे वयति जं च भारेणं । सीतीए रज्जुएण व ओयरणं दव्वऽहेकम्मं ॥ ११६॥
(टि०) १. ०था धनुषो युग० ला०॥ २. आहृता जि१ ॥ ३. च जे२ विना ॥ ४. ०णयहित्ता खं०। ०णमीहेत्ता जे२ ॥ ५. वज्जो खं० ॥ ६. ०त्ते अ० जे१ ॥ ७. ०हगे० जे२ । ०हगा० खं० ॥ ८. बहुणं जे१ ॥
(वि०टि०) ....भावनामाह - 'अन्तके' करहसज्ञे धनुषः सम्बन्धिनि प्रत्यञ्चाऽऽरोप्यते ततो धनुः प्रत्यञ्चाया आश्रयः, एवं शेषाणामपि यूपादीनां प्रत्याश्रयत्वं भावनीयम्.... इति मलय० ॥