________________
॥ आधाकर्म्मनिरूपणम् ॥
दंसण - णाणप्पभवं गाधा । व्याख्या- दर्शन - ज्ञानाभ्यां प्रभवः = प्रसूतिरस्येति दर्शन - ज्ञानप्रभवम्, किम् ? चरणं = चारित्रम्, यतश्चेवमतः शुद्धाभ्यां ताभ्यां दर्शन - ज्ञानाभ्यां किम् ? तत्शुद्धिः चरणशुद्धिर्भवति। चरणेन च हेतुभूतेन कर्म्मशुद्धिः, उद्गमशुद्धौ च सत्यां चरणशुद्धि:, यथावादकरणपरिज्ञानद्वारेण दर्शन - ज्ञानोपकारकत्वाद् उद्गमस्येति ।
आहाकम्मुद्देसियर पूतिकम्मे यर मीसजाए य४ ।
ठवणा' पाहुडियाए६ पाओयर कीय' पामिच्चे'॥१०७॥ परियट्टिए १० अभिहडे११ उब्भिण्णे१२ मालोहडे त्ति य१३ ।
२७
अन्ये पठन्ति 'सुद्धम्मि तम्मि तस्सुद्धि' त्ति शुद्धे तस्मिन् चारित्रे तच्छुद्धिः - दर्शन - ज्ञानशुद्धिः, चरणेन कर्म्मशुद्धिः, उद्गमशुद्धौ च चरणशुद्धिरित्यस्मिन् पक्षे शोभनमेव सर्व्वमिति गाथार्थः ॥ १०६॥ साम्प्रतमुद्गमदोषान् प्रतिपादयन्नाह—–
=
अच्छिज्जे १४ अणिसट्टे १५ अज्झोयरए य सोलसमे १६ ॥ १०८ ॥ दारगाह ॥ आहाकम्म० गाहा। परियट्टिए गाहा । एतासिं बहुवत्तव्वो त्ति कट्टु समुदायत्थो ण भण्णइ ॥ १०७-१०८॥ प्रतिद्वारमवयवार्थ एवोच्यते । तत्रऽऽधाकर्माऽधिकृत्येमां द्वारगाथामाह—
आहाकम्मियणामा एगट्ठा कस्स वावि किं वावि ।
अवयवार्थं तु भाष्यकार एव वक्ष्यति । तत्राऽऽधाकर्मनामप्रतिपादनायाह—
आहा अहे य कम्मे आयाहम्मे य अत्तकम्मे य ।
परपक्खे य सपक्खे चउरो गहणे य आणादी ॥ १०९ ॥ परिदारगाहा ।
आहाकम्मिगणामेत्यादि । अस्या व्याख्या- आधाकर्म्मनामानि वक्तव्यानि तथैकार्थिकानि च । तथा कस्य वा तदाधाकर्म्म ? समानधार्मिकादेः, किं वा ? अशनादि, परपक्षो गृहस्थाः, सपक्षः संयताः, तत्र विभाषा कार्या । तथा चत्वारोऽतिक्रमादयः ग्रहणे च आज्ञादयो वक्तव्या इति गाथासमासार्थः॥१०९॥
पडिसेवण पडिसुणणा संवासऽणुमोयणा चेव ॥ ११०॥
आहा अधे य गाहा । व्याख्या- ' आहा अहे य कम्मे 'त्ति अत्र चशब्द उभयोरपि कर्म्मशब्दसम्बन्ध-समुच्चयार्थः, आधाकर्म अधः कर्म्म च, 'आताहम्मे य अत्तकम्मे य'त्ति आत्मघ्नं च आत्मकर्म्म च, प्रतिसेवना, प्रतिश्रवणम्, संवासोऽनुमोदना च । एते हि आधाकर्म्मभेदा एवेति गाथासमासार्थः॥११०॥
अवयवार्थस्तु भाष्यादेवाऽवसेय इति । साम्प्रतं यदुक्तं 'आधाकम्मे' त्ति तत्र आधाय कर्म आधाकर्म । स च आधा द्विविधा- द्रव्याधा भावाधा च । तत्र द्रव्याधां प्रतिपादयन्नाह(टि०) १. ०मिच्चो जे२ ॥ २. ०ए य अ० खं० ॥ ३. अताह० जे२ ॥। ४. व्यणं चे० को० ॥
=