________________
॥ एषणानिरूपणम् ॥
संखेवपिंडियत्थो एवं पिंडो मए समक्खातो । फुडवियडपागडत्थं वोच्छामी एसणं एत्तो ॥८७॥
संखेव० गाहा । व्याख्या- पूर्वार्द्धं निगदसिद्धम्, पश्चार्द्धं तु व्याख्यायते - स्फुटो वर्णतः विकटो बन्धेन प्रकटः स्वरूपतः अर्थो यस्याः सा तथोच्यते, तां वक्ष्यामि एषणामत ऊर्ध्वमिति ॥८७॥ तत्र 'तत्त्व-भेद-पर्यायैर्व्याख्ये 'ति न्यायात् प्रथमतरमेवैषणापर्यायान् प्रतिपादयन्नाह— ३ ऐसण गवसणा मग्गणा य उग्गोवणा य बोद्धव्वा ।
२३
एते उ एसणाए णामा एगट्ठिया होंति ॥ ८८ ॥
एसण गाहा । व्याख्या- एसण त्ति वा गवेसण त्ति वा मग्गण त्ति वा उग्गोवण त्ति वा एगट्ठा॥८८॥ साम्प्रतमेषणाया भेदतो व्याख्यां कुर्व्वन्नाह
णामं -ठवणा- दविए भावम्मि य एसणा मुणेयव्वा । दव्वे भावे एक्केक्किया उ तिविहा मुणेयव्वा ॥ ८९॥
णामं -ठवणा० गाहा । इयं समुदायार्थमधिकृत्य कण्ठ्यैव, णवरं दव्वे भावे एक्केक्किया तिविह त्ति गवेसण गहणेसण घासेसणा भेदेण ॥ ८९ ॥
अवयवार्थं तु ग्रन्थकार एव प्रतिपादयिष्यति । तत्र नाम - स्थापने क्षुण्णत्वान्नोच्यते द्रव्यैषणाऽपि आगम-नोआगमज्ञशरीर-भव्यशरीरलक्षणेति, तद्व्यतिरिक्ता तु त्रिविधा - सचित्ता, अचित्ता मिश्रा चेति । तत्र सचित्ता त्रिविधा— द्विपद- चतुष्पदा - ऽपदभेदात् । तत्र द्विपदद्रव्यैषणां प्रतिपादयन्नाह— जम्मं सति एगो सुयस्स अण्णो तमेसए नहं ।
सत्तुं एसइ अण्णो पदेण अण्णो य से मच्चुं ॥ ९० ॥
जम्मं एसति गाहा। व्याख्या - जम्मं = उप्पत्ति, एषते = मृगयते, कस्य ? सुतस्य = पुत्रस्य, एकः कश्चिद्देवदत्तादिः। अन्यस्तं पुत्रमेषते नष्टम् । तथा शत्रुं = रिपुम्, एषतेऽन्यः पदेन - यथाऽनेन पथा गत इति। अन्यश्च से = तस्य, शत्रोः मृत्युं = मरणम्, एषते इति गाथार्थः ॥ ९० ॥
एषा द्विपदैषणा। एवं गवादिषु चतुष्पदैषणा पनसादिषु चापदैषणा कार्षापणादिषु चाचित्तैषणा कटकादियुक्तसुतादिषु च मिश्रद्रव्यैषणा वाच्येति । अमुमेवार्थं चेतसि निधाय भाष्यकार आहएमेव सेससु विचउप्पया- - ऽपद - अचित्त-मीसेसु ।
जा जत्थ जुज्जए एसणा तु तं तत्थ जोएज्जा ।। ९१ ॥ दारं ॥
(टि०) १. ०वपिंडयत्थो खं० जे२ वा१ ॥ २ ० मि य एस० खं० ॥ ३. इयं गाथा जे१ प्रतौ नोपलभ्यते ॥ ४. ०क्वेक्कगा खं० ॥ ५. व्यति जि० जि१ ॥ ६. पन्नगादि० जि१ । पन्नब्भादि० ला० ॥ ७ ०पया अ० खं० ॥