________________
॥ साङ्गार-सधूमनिरूपणम् ॥
१६५ एत्थ तु ततिय-चउत्था दोण्णि उ अणवट्ठिया भवे भागा।
पंचम छट्ठो पढमो बितिओ य अवट्ठिया भागा॥६९०॥ दारं॥ एत्थ उ गाहा। व्याख्या- अत्र तु षड्भागप्ररूपणे तृतीय-चतुर्थों द्वौ त्वनवस्थितौ भागौ भवतः, पञ्चमः पानविषयो भागः, षष्ठो वायुविषयः, प्रथम-द्वितीयौ त्वाहारविषयावित्येते भागा अवस्थिता भवन्तीति गाथार्थः॥६९०॥ उक्तं प्रमाणद्वारम्। ____अधुना साङ्गार-सधूमद्वारद्वयमाह- सह अङ्गारैर्वर्त्तत इति साङ्गारम्, तत्र अङ्गारा द्विविधाद्रव्याङ्गारा भावाङ्गाराश्च, तत्र द्रव्याङ्गाराः खदिरादिवनस्पतिविशेषाः कृशानुदग्धा ये, भावाङ्गारास्तु रागविशेषाः।
सह धूमेन = सधूमम्, धूमोऽत्र द्विविधो- द्रव्य-भावभेदात्, तत्र द्रव्यधूमोऽर्द्धदग्धानां काष्ठादीनां यो धूमो, भावधूमस्तु द्वेष इति। तत्र भावाङ्गार-भावधूमदोषदूषितं भोजनं कथं भवतीत्याह
तं होइ सइंगालं जं आहारेइ मुच्छिओ संतो।
तं पुण होदि सधूमं जं आहारेइ निंदतो॥६९१॥ तं होइ गाहा। व्याख्या- तद् भवति साङ्गारं यद् भोजनं आहारयति मूर्च्छितः सन्- अहो ! मिष्टं, अहो ! सुसम्भृतं, स्निग्धं, सुपक्कं, सुरसमित्येवं भणन्निति।
तत् पुनर्भवति सधूमं यद् भोजनं आहारयति अहो ! विरूपं, कुथितं, अस्वादु, असंस्कृतं, अपक्वं, अलवणं चेत्येवं निन्दन्निति गाथार्थः॥६९१॥ साङ्गार-सधूमलक्षणमाह
अंगारत्तमपत्तं जलमाणं इंधणं सधूमं तु।
अंगारो ति पव्वुच्चइ तं चिय दर्ल्ड गते धूमे ॥६९२॥ अंगारत्त० गाधा। व्याख्या- अङ्गारत्वं अप्राप्तं ज्वलदिन्धनं सधूममुच्यते, अङ्गार इति प्रोच्यते तदेवेन्धनं दग्धं गते धूमे सतीति गाथार्थः॥६९२॥ रागमहात्म्यमाह
रागग्गिसंपलित्तो भुंजंतो फासुयं पि आहारं।
णिद्दडिंगालनिभं करेइ चरणिधणं खिप्पं ॥६९३॥ रागग्गि० गाहा। व्याख्या- रागाग्निसम्प्रदीप्तो भुञ्जानः प्रासुकमपि आहारं निर्दग्धाङ्गारनिभं करोति चरणेन्धनं क्षिप्रमिति गाथार्थः॥६९३॥ द्वेषमहात्म्यमाह
दोसग्गी वि जलंतो अप्पत्तियधूमधूमियं चरणं।
अंगारमित्तसरिसं जा ण भवति णिद्दहइ ताव॥६९४॥ दोसग्गी वि गाहा। व्याख्या- द्वेषाग्निरपि ज्वलन् अप्रीतिरेव धूमस्तेन धूमितं चरणं अङ्गा(टि०) १. निन्दन्ति इति जि०॥ २. गारं ति जे२ विना॥ ३. गारमिति ला०॥ ४. रमेत्त से संजात भवइ खं० जे१ जे२॥ ५. वियाणाहि जे२,४ भां०॥