________________
१६६
॥ सवृत्तिपिण्डनियुक्तिः ॥ रमात्रसदृशं यावन्न भवति निर्दहति तावदिति गाथार्थः॥६९४॥ साम्प्रतं द्वारद्वयमपि निगमयन्नाह
रागेण सइंगालं दोसेण सधूमगं तु णायव्वं।
छायालीसं दोसा बोधव्वा भोयणविहीए॥६९५॥ . रागेण गाहा। व्याख्या- रागेणाध्मातो भुञ्जानः साधुः साङ्गारं चरणं करोति द्वेषेण युक्तो भुञ्जानः सधूमं चरणं करोतीत्येवं ज्ञातव्यं, तस्माद् रागद्वेषगतं न भोक्तव्यमिति गाथापूर्वार्द्धार्थः। .. ___पश्चार्द्धन समस्तपिण्डदोषसङ्ख्यानमाह- षट्चत्वारिंशद्दोषा बोद्धव्या भोजनविधौ, कथम् ? उद्गमदोषाः पञ्चदश, यतोऽध्यवपूरको मिश्रजाते प्रविष्टः, उत्पादनादोषाश्च षोडश तथैषणादोषा दश, संयोजनादि दोषपञ्चकमित्येवं षट्चत्वारिंशद्दोषा इति गाथापश्चार्द्धार्थः ॥६९५॥ कीदृशं पुनराहारं भुञ्जते साधव ? इत्येतदाह
आहारेति तवस्सी वितिंगालं च विगयधूमं च।
झाण-ज्झयणणिमित्तं एसवदेसो पवयणस्स॥६९६॥दारं॥ आहारती गाधा। व्याख्या- आहारयन्ति तपस्विनो विताङ्गारं च रागाऽकरणेन विगतधूमं च द्वेषाऽकरणेन, तदपि न निष्कारणं भुजते, बठरवत्, किं तर्हि ? ध्याना-ऽध्ययननिमित्तमेष उपदेशः प्रवचनस्य = आगमस्येति गाथार्थः॥६९६॥ साङ्गार-सधूमद्वारे व्याख्याते।
साम्प्रतं कारणद्वारमाह- तत्र कारणं रजनीपाश्चात्ययामप्रतिक्रमणचरमकायोत्सर्गस्थः चिन्तयति भोक्तव्यकारणानि मम सन्ति न सन्ति वेति, सन्ति चेत् कियन्ति पुनस्तानीत्यत आह
छहि कारणेहि साहू आहारतो वि आयरइ धम्म।
छहिं चेव कारणेहिं णिज्जूहंतो वि आयरइ॥६९७॥ छहिं कारणेहिं गाहा। व्याख्या- षड्भिः कारणैः साधुनिस्पृह आहारयन्नपि आचरति धर्मा षड्भिरेव च कारणैः ‘णिज्जूहंतो वित्ति परित्यजन्नपि आचरति धर्म, भगवदर्हत्प्रणीतागमस्य अनेकान्तवादगर्भत्वादिति गाथार्थः॥६९७॥ कानि पुनस्तानि भोजनस्य षट्कारणानीत्याह
वेयण वेयावच्चे इरियट्ठाए य संजमट्ठाए। __ तह पाणवत्तियाए छठे पुण धम्मचिंताए॥६९८॥ वेयण गाधा। व्याख्या- क्षुद्वेदनोपशमनाय, आचार्यादिभेदेन दशविधवैयावृत्यकरणाय, ईर्यापथसंशोधनार्थम्, संयमार्थं तथा 'प्राणप्रत्ययार्थमिति प्राणसंधारणार्थं षष्ठं पुनः धर्मचिन्तार्थं भुञ्जीतेति सर्वत्र क्रिया द्रष्टव्या॥६९८॥ एनामेव गाथां विवृण्वन्नाह
णत्थि छुहाए सरिसिया वियणा भुंजेज तप्पसमणट्ठा।
(टि०) १. त्थि हु छु० जे२॥ २. तओ जे२॥ ३. ०णभयं च भयाणं छुहा० ला०॥