________________
१६४
॥ सवृत्तिपिण्डनियुक्तिः ॥ पत्थं पुण रोगहरं ण य हेऊ होइ रोगस्स॥६८५॥ दहि० गाहा। व्याख्या- दधि-तैलयोः समायोगो न हितस्तथा क्षीर-दधि-काञ्जिकानां च समायोगो विरुद्ध इति। उक्तं च
शाका-ऽऽम्लफल-पिण्याक-कूलत्थ-लवणैः सह।
करीर-दधि-मत्स्यैश्च प्रायः क्षीरं विरुध्यते॥१॥ () पथ्यं पुनरविरुद्धद्रव्यमीलनं रोगहरं न च तद् इत्थम्भूतं हेतुर्भवति रोगस्येति । उक्तं च
अहिताशनसम्पर्कात् सर्वरोगोद्भवो यतः।
तस्मात्तदहितं त्याज्यं न्याय्यं पथ्यनिषेवणम्॥१॥ () इति गाथार्थः॥६८५॥ साम्प्रतं मितव्याचिख्यासयाह
अद्धमसणस्स सव्वंजणस्स कुज्जा दवस्स दो भाए।
वायपवियारणट्ठा छन्भागं ऊणयं कुज्जा॥६८६॥ अद्धमसणस्स गाहा। व्याख्या- सर्वमेवोदरं षड्भागैर्विभज्यते, तत्रार्द्धमिति भागत्रयं अशनस्य सव्यञ्जनस्याधारं कुर्यात्, तथा द्रवस्य जाठरभागद्वयमाधारं कुर्यात्, वायुप्रविचारणार्थं षड्(ठ)भागमुदरस्य ऊनकं कुर्य्यादिति गाथार्थः॥६८६॥ कालापेक्षया आहारमानं भवति, स च त्रिधेत्याह
सीतो उसिणो साहारणो य कालो तिहा मुणेयव्वो।
साधारणम्मि काले तत्थाहारे इमा मत्ता॥६८७॥ सीओ गाधा। व्याख्या- शीतः, उष्णः, साधारणश्च कालस्त्रिधा ज्ञातव्यः, साधारणे काले तत्राहारे इयं पूर्वगाथोक्ता मात्रा भवतीति गाथार्थः॥६८७॥
सीए दवस्स एगो भत्ते चत्तारि अहव दो पाणे।
उसिणे दवस्स दोण्णी तिण्णि व सेसा तु भत्तस्स॥६८८॥ सीए गाधा। व्याख्या- तत्रातिशीते द्रवस्य = उदकस्य एको भागो भक्तस्य चत्वारो भागा अथवा द्वौ भागौ पानविषयौ मध्यमशीत इति। तथा अत्युष्णे द्रवस्य त्रयस्तु भागा अशनस्य द्वौ भागौ त्रयो वा शेषे विमध्यमोष्णे भक्तस्येति गाथार्थः॥६८८॥ भागानां स्थिर-चरविभागदर्शनायाह
एगो दवस्स भागो अवडिओ भोयणस्स दो भागा।
वहूति व हायंति व दो दो भागा उ एक्केके॥६८९॥ एगो गाहा। व्याख्या- एको द्रवस्य भागोऽवस्थितो भोजनस्य द्वौ भागौ, वर्द्धते वा हानि वा व्रजतो द्वौ द्वौ भागावेकैकस्मिन् भक्ते पाने चेति गाथार्थः॥६८९॥ (टि०) १. व्यव्वा जे२॥ २. तिण्णी जे४ भां०॥ ३. तत्थ ॥१॥ ४. वि खं०॥