________________
॥ प्रमाणनिरूपणम् ॥ यावद् अर्द्धं अर्द्धार्द्धकं चाहारं साधोब्रुवते धीरा यात्रामात्रं च न्यूनं चेति गाथार्थः॥६७९॥ प्रमाणदोषमाह
पकामं च निकामं च पणीयं भत्तपाणमाहारे।
अतिबहुयं अतिबहुसो पमाणदोसो मुणेयव्वो॥६८०॥ पगामं च गाहा। व्याख्या- प्रकामं च निकामं च प्रणीतं भक्तपानमाहारयेत् अतिबहुकं, अतिबहुशः प्रमाणदोषो ज्ञातव्यः साधोरिति गाथार्थः॥६८०॥ प्रकामादिस्वरूपमाह
बत्तीसोदि परेणं पकाम निच्चं तमेव तु णिकाम।
जं पुण गलंतनेहं पणीतमिति तं बुहा बेंति॥६८१॥ बत्तीसाइ गाहा। व्याख्या- द्वात्रिंशत्कवलादेः परतो भुञानस्य प्रकामभोजनम्, नित्यं प्रतिदिनं तमेव तु प्रमाणातीतमश्नतो निकामभोजनं भवति, यत्पुनर्गलस्नेहं भोजनं तत् प्रणीतं बुधा ब्रुवत इति गाथार्थः॥६८१॥ पुनरपि प्रमाणदोषमाह
अतिबहुयं अतिबहुसो अतिप्पमाणेण भोयणं भुत्तं।
हादेज व वामेज व मारेज व तं अजीरंतं॥६८२॥ अइबहु० गाधा। व्याख्या- अतिबहुकं अतिबहुशोऽतिप्रमाणेन अतृप्यमानेन वा भोजनं भुक्तं सत् हादयेद् वा वमयेद् वा मारयेद् वा तदजीर्यदिति गाथार्थः॥६८२॥ अतिबह्वादिस्वरूपमाह
बहयातीतमइबहं अतिबहसो तिण्णि तिण्ह व परेणं।
तं चिय अतिप्पमाणं भुंजति जं वा अतिप्पंतो॥६८३॥ बहुयाईय० गाधा। व्याख्या- बह्वतीतं अतिबहुं निजाहारातीतमित्यर्थः, अतिबहुशः- तिम्रो वारा भुङ्क्ते तिसृभ्यो वा परतो यद् भुङ्क्ते तदेव च अतिप्रमाणमुच्यते अथवा भुङ्क्ते यद् वाऽतृप्यमानो भोजनं तदतृप्यमानमिति गाथार्थः॥६८३॥ प्रमाणादियुक्ताहारभोजने गुणानाह
हिताहारा मिताहारा अप्पाहारा य जे नरा।
न ते विजा तिगिच्छंति अप्पाणं ते तिगिच्छगा॥६८४॥ हियाहार सिलोगो। हितं द्रव्यतो भावतश्च, द्रव्यतोऽविरुद्धद्रव्याणि घृत-गुडादीनि भावतस्त्वेषणीयं तदाहारयन्ति ये ते हिताहाराः, मितं = प्रमाणोपेतं भोजनं येषां ते मिताहाराः, एतस्मादप्यल्पतरं भुञ्जते ये ते अल्पाहाराः, एवंविधाश्च ये नरा न तान् वैद्याश्चिकित्सन्ति आत्मनैव आत्मनस्ते चिकित्सका इति श्लोकार्थः॥६८४॥ अहित-हितस्वरूपमाह
दहि-तेल्लसमाओगो अहितो खीर-दहि-कंजियाणं च।
(टि०) १. ०साए जे४ भां०॥ २..
तुं जे१॥ ३. वमएज खं०॥ ४. ०प्पंते खं० जे२॥ ५. खीरघयकं० खं०॥