________________
१६२
॥ सवृत्तिपिण्डनियुक्तिः ॥ शेषगमनार्थं = शेषोपयोगाय दृष्टः = अनुज्ञातः संयोगः खल्वन्यद्रव्येण। अथ क्रमस्तस्य अयं उक्तस्वरूपो वक्ष्यमाणश्च भवतीति गाथार्थः॥६७६॥
रसहेउं पडिसिद्धो संजोगो कप्पते गिलाणट्ठा।
जस्स व अभत्तछंदो सुहोचिओऽभाविओ जो य॥६७७॥ रसहेउं गाहा। व्याख्या- रसहेतोः = रसनिमित्तं प्रतिषिद्धः संयोगः = संयोजना, ग्लानार्थं यस्य वा न भक्तछन्दः = अरोचकः सुखोचितो वा यो राजपुत्रादिः 'अभावित' इति अजातसम्यक्परिणामो यश्च तदर्थं संयोजनाऽपि अदुष्टेति गाथार्थः॥६७७॥ गतं संयोजनाद्वारम्। अधुना आहारप्रमाणद्वारमाह
बत्तीसं किर कवला आहारो कुच्छिपूरओ भणिओ।
पुरिसस्स महिलियाए उ अट्ठावीसं भवे कवला॥६७८॥ बत्तीसं गाधा। व्याख्या- द्वात्रिंशत् 'किले'त्ति मध्यमप्रमाणसंसूचकः कवला आहारः कुक्षिपूरको भवति पुरुषस्य, महेलायास्त्वष्टाविंशतिः भवेत् कवला आहारः कुक्षिपूरक इति गाथार्थः॥६७८॥
नपुंसकस्य चतुर्विंशतिः कवला आहारः, स चात्र न गृहीतः, प्रायेण नपुंसकस्य अयोग्यत्वात् प्रव्रज्यायाः। कवलानां किं प्रमाणम् ? कुक्कुट्यण्डकप्रमाणमात्राः कवला भवन्ति। कुक्कुटी द्विविधाद्रव्यकुक्कुटी भावकुक्कुटी च। तत्र द्रव्यकुक्कुटी द्विविधा- उदरकुक्कुटी गलकुक्कुटी च। तत्र उदरकुक्कुटी साधोरुदरं यावन्मात्रेणाहारेण नातिन्यूनं नात्याध्मातं भवति स आहारः (उदर)कुक्कुटी, तस्या द्वात्रिंशत्तमो भागोऽण्डकम्, तत् प्रमाणं कवलस्य। ____गल एव कुक्कुटी = गलकुक्कुटी तदन्तरालमण्डकं, तत्राविलग्नो यः पिण्डः प्रविशति अविकृतास्यस्य तत् प्रमाणं कवलस्येति, अथवा शरीरमेव द्रव्यकुक्कुटी तन्मुखं अण्डकं तत्राविकृते मुखे अक्षिकपोलौष्ठभूभिर्यः प्रविशति पिण्डस्तत् प्रमाणं कवलस्य, अथवा कुक्कुटी– पक्षिणी तदण्डकप्रमाणः कवलो ग्राह्यः।
भावकुक्कुटी पुनर्येनाहारेण भुक्तेन नातिन्यूनं नात्याध्मातमुदरं धृतिं च बध्नाति ज्ञान-दर्शन-चारित्राणां च वृद्धिर्भवति तस्याहारस्य द्वात्रिंशो भागोऽण्डकं, तत् प्रमाणं कवलस्य, अत्र च भावस्य प्राधान्याद् भावकुक्कुट्यण्डकमात्रप्रमाणता भावनीया कवलस्येति।
एत्तो 'किंची हीणं अलु अद्धद्धगं च आहारं।
साहुस्स बेंति धीरा जातामातं च ऊणं च॥६७९॥ एत्तो गाधा। व्याख्या- एतस्माद् आहारप्रमाणात् किञ्चिन्मात्रया हीनं कवलेन कवलाभ्यां कवलैहीनं (टि०) १. अजातः समयक्परिणामो यस्य तदर्थं ला०॥ २. व जे२॥ ३. किणाविही० जे१ विना॥ ४. ओमं जे२ विना॥ ५. ०दोसा खं०॥ ६. ०व्या खं०॥