________________
॥ दायकदोषनिरूपणम् ॥
संसज्जिमंमि देसे संसज्जिमदव्वलित्तकरमत्ता । संचारा उव्वत्तण उक्खिप्पंते वि ते चेव ॥६२९ ॥
संसज्जिम० गाहा । व्याख्या - संसक्तिम (द) द्रव्यवति देशे संसक्तिम (द्) द्रव्यलिप्तः करो मात्रकं वा यस्याः सा तथा, सा चैवंविधा भिक्षादात्री वर्जनीया रेसकानां जीवानां वधरक्षणार्थमिति, तथा सञ्चारादीनामाघातः स्यादिति अपवृत्त्योखादि या ददाति सा वर्जनीया, उत्क्षिप्यापि ददती वर्जनीया, यतोऽत्र द्वौ दोषौ सञ्चारादिपीडा दात्रीपीडा चेति गाथार्थः ॥ ६२९ ॥
साधारणं बहूणं तत्थ तु दोसा जहेव अणिसट्टे । चोरियए गहणादी भयए सुण्हादि वा 'दिंते॥६३०॥
१५१
साहारणं गाहा। व्याख्या - साधारणं = सामान्यं बहूनां तत्र तु दोषा यथैवानिसृष्टे तथैव द्रष्टव्याः। तथा चोरितद्रव्य ( ? व्या ) दाने ग्रहण - बन्धनादयो दोषा भृतके स्नुषा - श्वश्रादौ वा ददतीति गाथार्थः॥६३०॥
पाहुडिठवियगदोसा तिरि उड्ड - महे तिहा अवायाओ ।
धम्मियमादी ठवियं परस्स परसंतियं व त्ति ॥ ६३१ ॥
पाहुडि० गाहा । व्याख्या- प्राभृतिकां बल्यादिनिमित्तं संस्थाप्य या ददाति तत्र स्थापितद्वारे ये दोषाः प्रवर्त्तनादयस्तेऽत्राऽपि भवन्ति । सप्रत्यपायेति यदुक्तं तदपायानाह - तिर्यगपायो गवाद्यभिघात उर्ध्वं काष्ठाद्यभिघातोऽधस्ताद् अहिबिल - कण्टकादि त्रिधा अपाया भवन्ति, तस्माद्वर्जनीया सप्रत्यपायेति । 'परं चोद्दिश्य' (इति) यदुक्तं तदाह- धार्मिकाद्यर्थं स्थापितं परस्य 'परसंतियं वे 'ति परकीयं वेति गाथार्थः॥६३९॥
आभोगा-ऽनाभोगदायकद्वयमाह
अणुकंपा पडिणीयट्ठया व ते कुणड़ जाणमाणो वि । एसणदोसे बिइओ उ कुणइ असढो अयाणंतो ॥६३२ ॥
अणुकंपा गाहा । व्याख्या- अनुकम्पया प्रत्यनीकार्थतया वा तानेषणादोषान् करोति जानानोऽपि द्वितीयस्तु करोत्यशठोऽजानानोऽनाभोगत इत्यर्थ इति गाथार्थः॥६३२॥
यदुक्तमेतेषां दायकानां मध्ये केषाञ्चित् ग्रहणं भाज्यं केषाञ्चिदग्रहणमिति तदाहभिक्खामेत्ते अविचारणा तु बालेण दिज्जमाणंमि ।
( टि०) १. तहेव जि१ ॥ २. देतो जे१, २ ॥ ३. च जे१ ॥ ४. ०ण्णाए खं० ॥
(वि०टि०) सञ्चारादीनाम् = पिपीलिकादीनाम् इति ला० टि० ॥ * उखा = स्थाली इति ला० टि० ॥ 8. धार्मिकाद्यर्थं अपरसाधुकार्पटिकप्रभृतिनिमित्तं यत् स्थापितं तत्परस्य परमार्थतः सम्बन्धीति न गृह्णीयात् तद्ग्रहणेऽदत्तादानदोषसम्भवात्, न कल्पते अदत्तादानदोषात् इति मलय० ॥