________________
१५२
॥ सवृत्तिपिण्डनियुक्तिः ॥ संदिढे वा गहणं अतिबहुय वियालणेऽणुण्णा॥६३३॥ भिक्खा० गाहा। व्याख्या- भिक्षामात्रके अविचारणा तु बालेन दीयमाने गृहपतिसन्दिष्टे वा बाले ग्रहणम्, अतिबहुकं ददति बाले विचारणे कृते यद्यनुज्ञा भवति ततो ग्राह्यमिति गाथार्थः॥६३३॥ स्थविरदायकापवादमाह
थेर पभु थरथरंते धरिए अण्णेण दढसरीरे वा।
अव्वत्तमत्तसड्ढे अविंभले वा असागरिए॥६३४॥ थेर गाहा। व्याख्या- स्थविरो यदि प्रभुर्भवति 'थरथरते'त्ति कम्पमानो यद्यन्येन विधृतो भवति दृढशरीरो वा यदि भवेत् ततो ग्राह्यम्।
मत्तदायकापवादमाह- अव्यक्तं मनाग् मत्तो यः श्राद्धकश्चाविह्वलो वा यदि च सागारिको नास्ति तस्मान्मत्तादप्येवंविधाद् ग्राह्यमशनादीति गाथार्थः॥६३४॥ उन्मत्तकापवादमाह
सुइ भद्दग दित्तादी दढग्गहे वेविते जरम्मि सिवे।
अण्णधरियं तु सड्डो देंतंऽधोऽन्नेण वा धरिओ॥६३५॥ सुइ गाहा। व्याख्या- शुचिर्भद्रकश्च यदि भवति दृप्तादिरुन्मत्तकः, आदिशब्दाद् ग्रहगृहीतादयो गृह्यन्ते, ईदृशादुन्मत्तकादपि ग्राह्यम्, तथा दृढहस्तग्रहो वेपितो यदि भवति ततो ग्राह्यं तथा ज्वरितादपि ग्राह्यं ज्वरे शिवे सति।
अन्धकदायकापवादमाह- अन्धोऽपि विधृतमन्येन देयं श्राद्धो ददात्यन्येन वा धृतः सन् यदि ददाति ततोऽन्धकादपि ग्राह्यमिति॥६३५॥ प्रगलितदायकापवादमाह
मंडलपसुत्तिकुट्ठी असागरिए पाउयागए अचले।
कमबद्धे सवियारे इयरे बेटे असागरिए॥६३६॥ मंडल० गाहा। व्याख्या- मण्डलप्रसुप्तिकुष्ठयुक्तो यः कुष्ठी सागारिकरहितः तस्माद् गृह्यते, तथा 'पाउआगए अचले'त्ति पादुकारूढः स्थानस्थितो यदि ददाति ततः कारणे सति तस्मादपि ग्राह्यम्।
बद्धापवादमाह- 'कमबद्धे सवियारे'त्ति क्रमयोर्बद्धः सविचारो = यो गन्तुं शक्नोत्यपीडितस्तस्माद् ग्राह्यम्, इतरस्तु अविचार उपविष्टो यद्यविद्यमानसागारिको ददाति ततः कल्पत इति गाथार्थः॥६३६॥
तथा
पंडग अप्पडिसेवी वेला थणजीवि थेरितर सव्वं ।
(टि०) १. भवेद्दाना ग्राह्यम् जि१॥ २. ०तोंधो वणेण जे२॥ ३. होऽवेपि० जि१॥ ४. सारीए जे४ भा०॥ ५. सवियारे जे२॥ ६. व्वे वि जे१॥ ७. ते अणाए खं० ॥१॥ ८. अकिंचि० जे१,२॥ (वि०टि०) .. मलयगिरिसूरिमते 'पसूति' इति पाठः स्यात्। तथा च तट्टीका → मण्डलानि वृत्ताकारदद्रुविशेषरूपाणि, प्रसूतिः- नखादिविदारणेऽपि चेतनाया असंवित्तिस्तद्पो यः कुष्ठः रोगविशेषः ......इति मलय०॥