________________
॥ दायकदोषनिरूपणम् ॥
१४९
अशुचित्वाद्दातुः साधोः खिंसा च = निन्दा स्यात्, चशब्दात् पतनं च दातुः, छिन्नकराद् ग्रहणेऽशुचित्वात् ख्रिसादयो दोषाः, य एव च्छिन्नकरे दोषास्त एव छिन्नपादेऽपि पतनं त्वधिकमिति, तस्मादेतेभ्यो हस्तान्न ग्राह्यमशनादीति गाथार्थः ॥ ६२० ॥ नपुंसकातू पिण्डग्रहणे दोषानाहआय - परोभयदोसा अभिक्खगहणंमि खोभणा पंडे । लोग दुर्गुछा संका एरिसगा नूणमेते वि ।। ६२१ ॥
आय० गाधा। व्याख्या - आत्म-परोभयदोषा अभीक्ष्णग्रहणे भिक्षायाः क्षोभणात् पण्डके दातरि, लोके जुगुप्सा शङ्का च स्याद् “ईदृशका नूनमेतेऽपि श्रमणकाः”, तस्मान्नपुंसकान्न ग्राह्या भिक्षेति गाथार्थः॥६२१॥ गुर्व्विणीसकाशात् पिण्डग्रहणे दोषानाह
गव्विणि गब्भे संघट्टणा उ उतवेसमाणीए । बालाती मंसुंडग मज्जारादी विरोहेज्जा ॥६२२ ॥
गुव्विणी गाधा । व्याख्या- गुर्व्विण्या भिक्षादानप्रवृत्ताया गर्भसङ्घट्टना भवत्युत्तिष्ठन्त्या उपविशन्त्याश्च ।
= गर्भसञ्चलनं
बालवत्सदात्रीदोषानाह— 'बालाती मंसुंडग मज्जाराई विराहेज्जा' त्ति बालं मांसपिण्डकमिति कृत्वा मार्जारादिर्विराधयेत् खरहस्तग्रहण- मोचन - परितापना - ऽन्तराय - रोदनादिदोषाश्च भवन्तीति, अतो गुर्व्विणीबालवत्साहस्तान्न ग्राह्यमशनादीति गाथार्थः ॥ ६२२ ॥ भुञ्जानादात्रीदोषानाह—
भुंजंती आयमणे उदगं बोट्टी य लोगगरहा य ।
घुसुलेंती संसत्ते करम्मि लित्ते भवे रसगा ॥६२३॥
भुंजती गाहा । व्याख्या- • भुञ्जन्ती = भुञ्जाना भिक्षार्थमाचमने उदकोज्झनं कुर्य्याद् अनाचमने दात्र्या बोटीरित्यशुचिरिति कृत्वा लोकगर्हा स्यात् ।
'घुसुलेंति' त्ति दध्यादि मथ्नती संसक्ते गोरसे तेन च करे लिप्ते भवेद्वधो रसकानामिति, अतोऽस्या हस्तान्न ग्राह्यः पिण्ड इति गाथार्थः ॥६२३ ॥
दग - बीए संघट्टण पीसण - कंड- दल भज्जणे हणं ।
६
'पिंजंत रुचणाई दिन्ने लित्ते करे उदगं ।। ६२४॥
दग-बीए गाहा। व्याख्या - पेषण - कण्डन-दलनानि कुर्व्वाणा दात्र्य उदक - बीजानां सङ्घट्टनं कुर्युः । भर्जनं कुर्व्वाणा (?ण) या दात्र्या बीजानां वधः स्यात्, पिञ्जनं प्रतीतं, 'रुचणं' ति कर्पासलोठनं, कर्त्तनं प्रसिद्धं, 'पमद्दणं विक्खिणणं' रुतस्य कराभ्यां प्रकर्षेण मर्द्दनं प्रमर्दनमित्यर्थः, एतानि कुर्व्वाणा दत्तायां भिक्षायां लिप्तकरधावने जलोज्झनं कुर्युस्तस्मादेतेभ्यो हस्तान्न ग्राह्या भिक्षेति गाथार्थः ॥ ६२४ ॥
(टि०) १. खुब्भणा खं० ॥ २. उट्ठित वेसमाणा उ भां० ॥ ३. ० राहणया जे२ ॥ ४. ०जणा जे१ ॥ ५. गहणं जे१ ॥ ६. कत्तेति जे१॥ ७. पिंजणाई जे१ । कत्तणाई जे२ ॥ ८. ०त्थं वा खं० ॥ ९ ०एउगा० खं० ॥ १०. ०कायाणं जे१ ॥