________________
१४८
॥ सवृत्तिपिण्डनियुक्तिः ॥ गाथार्थः॥६१५॥ स्थविरदायकदोषानाह
थेरो गलंतलालो कंपणहत्थो पडेज वा देतो।
अपभु त्ति य अचियत्तं एगतरे वा उभयतो वा॥६१६॥ थेरो गाहा। व्याख्या- स्थविरो = वृद्ध इत्यर्थः गलल्लालः कम्पमानहस्तः पतेद्वा ददत्, अप्रभुरिति कृत्वा अचियत्तं = अप्रीतिरेकतरस्मिन् साधौ दातरि वा गृहपतेः समुत्पद्यते, 'उभयतो वावित्ति द्वयोर्वापीति गाथार्थः॥६१६॥ मत्तग्रहणे दोषानाह
अवयास भाणभेदो वमणं असुइ त्ति लोगगरहा य।
पंतावणं च मत्ते वमणविवजा तु उम्मत्ते॥६१७॥ अवयास गाहा। व्याख्या- अवयासणं त्वालिङ्गनं तथा भाजनभेदश्च वमनं = छर्दनम्, अशुचिरयमिति कृत्वा लोकतो गर्दा = जुगुप्सा जायते 'पंतावणं'ति आहननं च मत्ते दातयेते वनमवय॑स्त्वेत एव दोषा उन्मत्तके दातरि भवन्तीति गाथार्थः॥६१७॥ वेपितदातृदोषानाह
वेविय परिसाडणया पासे व छुभेज भाणभेदो वा।
एमेव य जरियंमि वि जरसंकमणं च उड्डाहो॥६१८॥ वेविय गाहा। व्याख्या- दातुर्वेपनेन परिशाटना भवति देयस्य पात्रस्य पार्श्वे वा क्षिपेत् स हि वेपमानो देयं भाजनभेदो वा स्यात्, एवमेते ज्वरितेऽपि दातरि दोषा भवन्ति तथा ज्वरसङ्क्रमणं चशब्दात् पतनं पित्तादिवमने चोड्डाहः स्यात्, अतस्ताभ्यां सकाशान्न ग्राह्यः पिण्ड इति गाथार्थः॥६१८॥ अन्धदायकदोषानाह
उड्डाह काय पडणं अंधे भेदो य पासछुभणं च।
तद्दोसी संकमणं गलंतभिसभिण्णदेहे य॥६१९॥ उड्डाह गाधा। व्याख्या- उड्डाहः स्यात्, 'काय' त्ति कायानां वधः, पतनमन्धे दातरि भेदश्च पात्रस्य पार्श्वप्रक्षेपणं च भिक्षायाः।
प्रगलितदोषानाह- त्वग्दोषी = कुष्ठी, किम्भूतः ? गलभृशभिन्नदेहस्तस्माद् ग्रहणे व्याधिसङ्क्रमणं उच्छवासादिलगनेन स्यादिति, अतोऽन्ध-कुष्ठिहस्तान्न ग्राह्यः पिण्ड इति गाथार्थः॥६१९॥ पादुकारूढादिदातृचतुष्टयदोषानाह
पायदुरूढपडणं बद्धे परिताव असुइ खिंसा य।
करछिण्णासुइ खिंसा ते च्चिय पादमि पडणं च॥६२०॥ पाउय० गाहा। व्याख्या- पादुकारूढस्य दातुः पतनं स्यात्, बद्धे निगडान्दुभिर्दातरि परितापना, (टि०) १. तत्र ग्रहणे जि१॥ २. वेवण जे१,२ खं०॥ ३. छुहइ जे१॥ ४. य खं०। उ जे१॥ ५. ०मणे खं०॥ ६. ०देहो ॥१॥ ७. व खं०॥