________________
१४३
॥ पिहितदोषनिरूपणम् ॥ हरियाइ गाहा। व्याख्या- हरितादिषु न्यस्ताऽपूपकादयोऽनन्तरनिक्षेपः, परम्परं हरितन्यस्तपिठरकादिषु मुद्गादयो वनस्पतिविषयोऽयं निक्षेप इति।
त्रसकायनिक्षेपमाह- अपूपादि बलीवदिपृष्टे निक्षिप्तं अनन्तरनिक्षेपः, बलीवर्दन्यस्तभरककुतुपादिषु अपूपक-घृतादि 'इतरे'त्ति परम्परनिक्षेप इति गाथार्थः॥५९३॥ गतं निक्षिप्तद्वारम्। अधुना पिहितद्वारमाह
सच्चित्ते अच्चित्ते मीसग पिहियम्मि होदि चउभंगो।
आइतिए पडिसेहो चरिमे भंगम्मि भयणा उ॥५९४॥ सच्चित्ते गाहा। व्याख्या- सचित्तेनाचित्तेन मिश्रेण च पिहिते = स्थगिते भवति चतुर्भझिका। आधभङ्गत्रये प्रतिषेधश्चरमे तु भङ्गे भजना भवतीति गाथार्थः॥५९४॥ अतिदेशं कुर्वन्नाह
जह चेव य निक्खित्ते संजोगा चेव होंति भंगा य।
एमेव य पिहियंमि वि णाणत्तमिणं ततियभंगे॥५९५॥ जह चेव य गाहा। व्याख्या- यथैव च निक्षिप्तद्वारे संयोगा भङ्गाश्च भवन्ति एवमेव पिहितेऽपि, नानात्वमिदं = विशेषोऽयं वक्ष्यमाणस्तृतीयभङ्गे अचित्तं सचित्तेन पिहितमित्यस्मिन्निति गाथार्थः॥५९५॥ ____अचित्तं भक्तादि सचित्तेन लेष्टु-शिलादिना पृथिवीकायेनानन्तरपिहितं, लेष्टु-शिलागर्भपच्छिकादिना परम्परपिहितं पृथिवीकायेन; अपूपादि हिमदल-करादिना अप्कायेनानन्तरपिहितम्, उदकभृतवर्द्धनिकादिना परम्परपिहितमप्कायेनेति। तेजःकायपिहितं द्विविधमपि स्वयमेवाह नियुक्तिकारः
अंगारधूवियादी अणंतरो संतरो सरावादी।
तत्थेव अतिर वाऊ परंपरं बत्थिणा पिहिते॥५९६॥ अंगार० गाहा। व्याख्या- अङ्गारेण धूपितं = अङ्गारधूपितं तदादौ अनन्तरपिहितं तेजस्कायेनेति, अङ्गारभृतसरावादिना तु परम्परपिहितं व्यञ्जनादि, तत्रैव धूपनाङ्गारादौ(?धूपिताङ्गारादौ) अनन्तरवायुपिहितं भवति, यत्राग्निस्तत्र वायुरिति वचनात्, परम्परपिहितं वायुभृतबस्त्यादिनेति गाथार्थः॥५९६॥ अनन्तर-परम्परवनस्पतिकायपिहितमाह
अइरं फलादिपिहियं वणंमि इयरं तु पच्छ-पिढरादी।
कच्छभ-संचारादी अणंतराणंतरे छठे॥५९७॥ अतिरं गाहा। व्याख्या- अतिरोहितं अनन्तरं मातुलिङ्गफलादिना पिहितं वनस्पतिकायेन, इतरं तु परम्परपिहितं बीजपूरकगर्भपच्छिका-पिठरादिना स्थगितं देयमिति गाथापूर्वार्द्धार्थः। (टि०) १. तियभंगे जे१॥२. गहणे आणाइणो दोसा जे१॥३. ०तरा सं जे१॥ ४. ०परो ब० ख० जे१,२॥५. ०तरपरंपरं जे१॥ ६. ०काये इतरं जि०, जि॥ ७. दिना तत्र १० जि१॥ ८. ०तीयं अन० जि१॥ ९. छट्ठोत्ति जि० जि१॥