________________
॥ सवृत्तिपिण्डनिर्युक्तिः ॥
त्रसकायपिहितं द्विविधमप्याह- 'कच्छभ - संचाराई अणंतराणंतरे च्छट्टे'त्ति कच्छपेन = कूर्मेण तथा सञ्चारादिना = पिपीलिकापङ्क्त्यादिना त्रसकायेनानन्तरपिहितम्, अनन्तरमिति वक्तव्ये निर्युक्तिकृता द्वितीयाऽनन्तरग्रहणं कृतं नकारलोपात् ततोऽयमर्थः परम्परपिहितं तच्च कच्छपगर्भपच्छिकादिना स्थगित 'छट्टे'त्ति त्रसकायविषय इति गाथार्थः ॥ ५९७ ॥
.९
उक्ता तृतीयभङ्गस्य ‘अचित्तं सचित्तेन पिहितम्' इत्यस्य मार्गणा । साम्प्रतं चतुर्थभङ्गस्य अचित्तमचित्तेन पिहितमित्यस्य चतुर्भङ्गिकया भजनामाह—
१४४
गुरु गुरुणा गुरु लहुणा लहुयं गुरुएण दो वि लहुगाई। अच्चित्तेण वि पिहिते चउभंगो दोसु अगेज्झं ॥ ५९८ ॥ दारं ॥
गुरु गाहा । व्याख्या- • गुरुद्रव्यं गुरुणा द्रव्येण पिहितमिति प्रथमः (१), गुरु लघुनेति द्वितीयो (२), लघु गुरुणेति तृतीयः (३) उभयलघुश्चतुर्थः (४) । एवमचित्तेनाऽपि पिहिते चत्वारो भङ्गा उक्तलक्षणा 'दोसु अगेज्झं 'ति प्रथम - तृतीययोरग्राह्यं द्वितीय - चतुर्थयोस्तु ग्राह्यमिति गाथार्थः॥५९८॥ उक्तं पिहितद्वारम्। इदानीं संहृतद्वारमाह- संहतं नाम यद् अन्यत्र संहृत्य तद् वा अन्यद् वा ददाति तत् संहृतमुच्यते। तत्र चतुर्भङ्गिकां दर्शयन्नाह—
सच्चित्ते अच्चित्ते मीसग साहारणे होइ चउभंगो।
आदितिए पडिसेहो `गहणे आणाइणो दोसा॥५९९॥
सचित्ते गाहा। व्याख्या– सचित्ता - ऽचित्त - मिश्रद्रव्याणां संहरणे क्रियमाणे चतुर्भङ्गिका भवति । आद्यभङ्गत्रये प्रतिषेधस्तस्मिंश्च ग्रहणे आज्ञाभङ्गा - ऽनवस्थादयो दोषा भवन्तीति गाथार्थः॥५९९॥ अतिदेशं कुर्वन्नाह
जह चेव य निक्खित्ते संजोगा चेव होंति भंगा य ।
तह चेव य साहरणे णाणत्तमिणं ततियभंगे ॥ ६०० ॥
जह चेव गाहा । व्याख्या- यथा चैव निक्षिप्ते संयोगा भङ्गाश्च भवन्ति तथैव संहरणे द्रष्टव्याः । नानात्वं इदं वक्ष्यमाणमचित्तं सचित्ते संहरतीत्येवं लक्षणे तृतीयभङ्गे भवतीति गाथार्थः॥६००॥
नानात्वमाह
मत्तेण जेण दाहिइ तत्थ अदिज्जं तु होज्ज असणादी ।
छोढुं तदण्णहिं तेण देइ अह होइ साहरणा ।। ६०१ ॥
(टि०) १. ०ङ्गिकाया जि१ ॥ २. वा जे१ ॥ ३. सच्चि० जे१ ॥ ४. मा गेज्झा खं० ॥ ५. साहारणम्मि खं० ॥ ६. चरिमे भंगम्मि भयणा उ जे४ भां० ॥
(वि०टि० ) *. इह येन मात्रकेण कृत्वा भक्तादिकं दातुमिच्छति दात्री तत्रान्यददातव्यं किमपि सचित्तमचित्तं मिश्रं वाऽस्ति ततस्तदन्यत्र भूम्यादौ क्षिप्त्वा तेनान्यद्ददाति.... क्षेपणं च संहरणमुच्यते । इति मलय० ॥ नवरं द्वितीय तृतीयचतुर्भङ्गिकयोः प्रत्येकं तृतीये तृतीये भङ्गेऽनन्तर - परम्परमार्गणाविधौ निक्षिप्तद्वारादिदं वक्ष्यमाणं नानात्वमवसेयम्, निक्षिप्तद्वारेऽन्येन प्रकारेणानन्तरपरम्परमार्गणा कृता अत्र तु संहृतद्वारेऽन्यथा करिष्यते इति भावः । इति मलय०