________________
॥ सवृत्तिपिण्डनिर्युक्तिः ॥
नप्त्रादिर्वेति गाथार्थः॥५२० ॥ सम्बन्धि (रूप) पूर्व्वसंस्तवोदाहरणमाह
१२६
अद्धिति दिट्ठीर्पण्हय पुच्छा कहणं ममेरिसी जणणी । थणखेवो संबंधो विधवासुहाइदाणं च ॥५२१॥
अद्धिइ गाहा। व्याख्या– कश्चिद् भिक्षार्थं गतः साधुराहारार्थं मातृस्थानतो मातृसदृश्यगारीपुरतः 'अद्धिई दिट्ठीपण्हव'त्ति अधृतिपूर्व्वकं दृष्टिप्रस्नवम् = साश्रुलोचनत्वं चकार । 'पुच्छ'त्ति पृष्टस्तया “किमेतद् ?” इति। ततः कथितं च तेन - “ ममेदृशी जननी भवत्या सदृश्याऽऽसीत्" । " अहमपि तव मातैवेति ब्रुवत्या कुचप्रक्षेपस्तन्मुखे कृतः, सम्बन्धः सञ्जातो विधवास्नुषादिदानं च साधोरिति, एवं पित्रादिसम्बन्धस्याऽप्युपलक्षणमेतदिति गाथार्थः ॥ ५२१ ॥
४
पश्चात्संस्तवेऽप्यधृति-दृष्टिप्रस्नुति-पृच्छाद्येवमेव वाच्यम्, दोषांस्तु निर्युक्तिकार एवाहपच्छासंथव दोसा सासू विधवादिधूयदाणं च ।
भजा मेरिस च्चिय सज्जो घाओ व भंगो व ॥ ५२२ ॥
पच्छासंथव गाहा। व्याख्या- पश्चात्संस्तवे दोषाः श्वश्रूर्विधव ( ? वा ) दुहित्रादिदानं कुर्य्यात् । साधु (? साधो ) र्वा भार्य्या ममेदृशी पूर्व्वमासीद् यादृशी त्वमित्येवमुक्ते सद्यो घातो वा 'भंगो वत्ति व्रतभङ्गो वा स्यादिति ॥५२२ ॥
श्वशुरादिष्वप्येवमेव संस्तवदोषाः वाच्याः । द्विविधस्याऽपि सम्बन्धिसंस्तवस्य दोषप्रदर्शनायाहमायावी चडुकारी अम्हं ओभावणं कुणइ एसो ।
णिच्छुभणादी पंतो करेज्ज भद्दो उ पडिबंधो ॥ ५२३ ।। दारं ।।
मायावी गाहा । व्याख्या- मायावी चाटूकारी अस्माकं 'ओहावण' त्ति तिरस्कारं करोत्येष श्रमणकः, तद्द्द्रव्यान्यद्रव्यहानिर्वध- -बन्धन-निष्कालनादिदोषान् प्रान्तः = प्रत्यनीकः कुर्य्यात् भद्रकस्तु प्रतिबन्धं कुर्य्यादिति गाथार्थः ॥ ५२३॥
सम्बन्धिसंस्तवो द्विविधोऽप्युक्तः । अधुना वचनसंस्तवो द्विभेदस्तत्राऽपि पूर्व्वसंस्तवमाहगुणसंथवेण पुव्वं संतासंतेण जो थुणेज्जाहि ।
दातारमदिण्णम्मि उ सो पुव्विं संथवो होदि ॥ ५२४ ॥
गुणसंवेण गाहा । व्याख्या - गुणास्त्यागादयस्तैः संस्तवो = गुणसंस्तवस्तेन, पूर्व्वं दानात्, सता = विद्यमानेन, असता = अविद्यमानेन वा यः साधुः संस्तुयाद् दातारमदत्ते दाने स पूर्व्वसंस्तव इति (टि०) १. पण्डुव जे१,२ ॥ २. पच्छा जे१ ॥ ३. ०हापदा० जे४ भां० विना ॥ ४. वदन्त्या ला० ॥ ५. प्रश्रुति जि० जि१ ॥ ६. सासू य जे४ भां० ॥ ७ ० सित्तिय जे१,२ ॥ ८. य खं० ॥ ९. पंता खं० जे१ ॥ १०. भद्देसु जे२ विना ॥ ( वि०टि० ) . मम श्वश्रूस्त्वत्तुल्या अभूदिति साधुर्जल्पति; तदा सा गृहस्थी स्नेहवशाद् आत्मनर्विधवदुहित्रादिदानं कुर्य्याद् इति
भावः ॥