________________
॥ क्रोधपिण्डनिरूपणम् ॥
११९
अण्णेसि गाहा। व्याख्या- अन्येभ्यो दीयमाने लाभाभावे वात्मनो याचमानो वाऽलब्धितः क्रुध्येत्। क्रोधफले वा साधोर्दृष्टे यो लभ्यते क्रोधपिण्डस्तु असाविति गाथार्थः॥४९७॥ उदाहरणमाह-.
करडुयभत्तमलद्धं अण्णहि दाहित्थ एव वच्चंतो।
थेराभोयण तइए आइक्खण खामणा दाणं॥४९८॥ दारं॥ करडुय० गाहा। व्याख्या- करडुकभक्तमलब्ध्वा “अन्यत्र दास्यथ" इत्येवं व्रजन् भणति स्थविराभोगनं श्रवणमित्यर्थः तृतीये = तृतीयवारायामाख्यातं स्थविरेण क्षामणा दानमिति गाथाक्षरार्थः ॥४९८॥ भावार्थस्तु कथानकादवसेयस्तच्चेदम्___ हत्थकप्पे नगरे साहू भिक्खं हिडतो मतकडसंखडीए पविट्ठो। तत्थ धिज्जाइयाणं घयपुरा दिजंति। सो तत्थ अणाढाइज्जमाणो चिरं अच्छिउं गंतुमणो भणति–“अण्णहिं दाहिह"त्ति भणिऊण णिग्गओ साहू। तत्थ देव्वजोएण बिइयं मतं तहेव संखडीए पविठ्ठो। बितियं सो साहू अलभमाणो “अण्णहिं दाहिह'त्ति भणतो णिग्गओ। पुणो वि देव्वजोएण तइयं मतं तत्थ तहेव मयकडसंखडीए ततियं वारं पविट्ठो। अलभमाणो “अण्णहिं दाहिह” त्ति भणिऊण णिग्गतो साहू घराओ। तत्थ य एगो अंधलउवारवालथेरो तइयं पि वारं इमं साधुवयणं सोऊण सयलं कहेइ घरवतीणं; भणति-“पसाएह एवं समणं मा सव्वे वि मरिस्सह"त्ति। तेहिं वाहरिऊण खामित्ता पडिलाहिओ घयपुण्णेहिं ति। एवं च क्रोधसमुत्पादितः पिण्डो ग्रहीतुं न कल्पत इति गाथाभावार्थः। उक्तं क्रोधपिण्डद्वारम्। (साम्प्रतं) मानपिण्डद्वारमाह, (तत्र) मानपिण्डसम्भवमाह
उच्छाहिओ परेण व लद्धिपसंसाहि वा समुत्तुइओ।
अवमाणिओ परेण व जो एसइ माणपिंडो सो॥४९९॥ उच्छाहितो गाहा। व्याख्या- उत्साहितः परेण "त्वमेव अस्य कार्यस्य (करणे) समर्थः" इत्येवं भणितः, तथा लब्ध्या लाभेन प्रशंसया वा साधुजनतः श्लाघया 'समुत्तुइओ'त्ति गर्वितः परेण वाऽपमानितः = तिरस्कृतः, इत्थं मानात् = मानतोऽयं पिण्डमेषते आहारं स मानपिण्डस्तु द्वितीयार्थे च प्रथमेति गाथार्थः॥४९९॥ अस्योदाहरणार्थं गाथाष्टकमाह
इगछणंमि परिपिंडियाण उल्लावो को णु हु पए त्ति। आणेज इटगाओ खुड्डो पच्चाह आणेमि॥५००॥ जइ वि य ता पज्जत्ता अगुलघयाहिं ण ताहि णे कज्जं।
जारिसियाओ इच्छह ता आणेमि त्ति णिक्खंतो॥५०१॥ (टि०) १. क्षपणा दान० ला०॥ २. मुइयो खं०॥ ३. उ जे१,२॥ ४. ०ह णे आ० जे१ ॥ ५. ०णेहिं ति खं०॥ (वि०टि०) .. करडुकः = मृत इति ला० टि०॥ *. उवारवाल = द्वारपाल इत्यर्थः।