________________
११८
॥ सवृत्तिपिण्डनियुक्तिः ॥ तथा, तस्मिन्नामये करोति क्रियामिति गाथार्थः॥४९३॥ एवं चिकित्सया पिण्डलाभे दोषानाह
अस्संजमजोगाणं पसंधणं कायघोय अयगोलो।
दुब्बलवग्घाहरणं अच्चुदए गेण्हणुड्डाहो ॥४९४॥ अस्संजम० गाहा। व्याख्या- असंयमयोगानां प्रसन्धना = सङ्घटना स्यात्, कायानां पृथिव्यादीनां घातः कृतो भवति, अयोगोलकतुल्यो गृही नीरोगः सन् सर्वत्रोपतापं करोति, दुर्बलव्याघ्रोदाहरणं चात्र. दृष्टव्यं तच्चेदम्- केनचिद् भिषग्वरेण दुर्बलान्धव्याघ्रः सचक्षुः कृतः, यथाऽसौ अनेकसत्त्वव्यापत्तिं चक्रे तथा निरोगः कृतो गृहस्थोऽपीति, दैववशाद् अत्युदये रोगस्य गृह्यते ऽसौ गृहस्थैः, प्रवचनोपघातः स्यादिति गाथार्थः॥४९४॥
उक्तश्चिकित्सापिण्डः। साम्प्रतं क्रोधादिपिण्डानाह- तत्र क्रोधनं = क्रोधः, क्रोधात् क्रोधस्य क्रोधेन क्रोधे वा पिण्डः = क्रोधपिण्डः, एवं मानपिण्डादयोऽपि वाच्याः। यथाक्रमं क्रोधपिण्डाद्युदाहरणप्रदर्शनायाह। तत्रैषां यथासङ्ख्येन नगराण्याह
हत्थकप्प गिरिफुल्लिय रायगिहं खलु तहेव चंपा य। __ कड घयपुण्णे इट्टग लड्डग तह सीहकेसरए॥४९५॥ हत्थकप्प गाहा। व्याख्या- हस्तकल्पं नगरं, गिरिपुष्पितं, राजगृहं खलु तथैव चम्पा च। तत्र यानुद्दिश्य साधोः क्रोधादयोऽभूवंस्तान् गाथापश्चाःनाह
‘कृतमिति मृतकार्यं तस्मिन् घृतपूर्णालाभे क्रोधोऽभूत्, इट्टकाः स्वेतो(?दो)द्वर्तिताः, तदलाभे मानोऽभवत्, लड्डुकानङ्गीकृत्य माया सजाता, लड्डुकविशेषसिंहकेसरानुररीकृत्य लोभः समुदभूत्, साधोरिति सर्वत्र सम्बन्धनीयमिति गाथार्थः॥४९५॥ क्रोधपिण्डसम्भवमाह
विजा-तवप्पभावं रायकुले वावि वल्लभत्तं से।
___णातुं ओरस्सबलं च देइ भए कोहपिंडोऽसो॥४९६॥ विजा० गाहा। व्याख्या- विद्याप्रभावं तपःप्रभावं राजकुले वाऽपि वल्लभत्त्वं 'से' तस्य साधोख़त्वा औरसबलं च शरीरबलम्, ददते भयात् क्रुद्धोऽयमपकारं करिष्यतीति क्रोधपिण्डोऽसाविति गाथार्थः॥४९६॥ प्रकारान्तरेण क्रोधपिण्डसम्भवमाह
अण्णेसि दिजमाणे जायंतो वा अलद्धिओ कुज्झे।
कोहफलंमि व दिढे जो लब्भइ कोहपिंडो तु॥४९७॥ (टि०) १. ०त्सायाः पि० जि०,१ विना॥ २. घाउ खं०॥ ३. ०ण्णेहिं जे२॥ ४. भूतं ता० जि१॥ ५. ०लं जं लभते कोवपिं० जे२ विना॥ ६. कोज्झा खं०॥ ७. वि जे४ भां०॥ ८. सो जे४ भां०॥ (वि०टि०) .. “अयम् अनेन रोगीकृतः” इति सञ्जातकोपैर्गृहस्थैः राजकुलादौ गृह्यते॥