________________
॥ धात्रीपिण्डनिरूपणम् ॥
१०७
मन्दक्षीरा कूर्पराकारस्तन्याः शुचीमुखो भवति, बाल इति गम्यते, इति गाथार्थः ॥४४८॥ वर्णं चाश्रित्य यदि गौरी ततः श्यामां वर्णयति गौरीनिन्दां च विदधाति, श्यामा चेद्विपरीतं वदत्याह च
जा जेण होदि वण्णेण उक्कडा गरहए तं तेण ।
गरहति समाण तिव्वं पसत्थभेदं तु दुव्वण्णं ॥ ४४९॥
जा जेण गाहा । व्याख्या- या येन भवति वर्णेनोत्कटा गर्हते च तां तेन वर्णेनेति सम्बन्धः, गर्हितया समानवर्णा यदि पूर्व्वधात्र्यपि भवति, ततश्च तीव्रं = अतिशयेन प्रशस्तवर्णभेदां पूर्व्वधात्रीमाह इतरां च दुर्व्वर्णामिति। अत्रान्तरे स्वमतिविकल्पितान् प्रस्तुतार्थाऽभिधायकान् श्लोकान् पपाठकृष्णा भ्रंशयते वर्णं गौरी तु बलवर्जिता । तस्माच्छ्यामा भवेद्धात्री बलवर्णैः प्रशंसिता ॥१॥ जाड्यं भवति स्थूलायास्तनुक्यास्त्वबलंकरम्। तस्मान्मध्यबलस्थायाः स्तन्यं पुष्टिकरं स्मृतम् ॥२॥ अतिस्तनी तु चिपिटं खरपीना तु दन्तुरम् । मध्यस्तनी महाच्छिद्रा धात्री सौम्यसुखङ्करी ॥ ३ ॥
एैतच्च श्रुत्वा गृहिणी निजर्भेर्त्तुः कथयामास, तेनाऽपि तामपनीय चिरन्तन्येव स्थापितेति गाथार्थः॥४४९ ॥ एवं धात्रीत्वं कारयतः साधोर्दोषानाह
६
उव्वट्टिता पओसं छोभग उब्भामओ य से जंतू ।
होज्जा मज्झ वि विग्घो विसाति इयरी वि एमेव ॥ ४५० ॥
उव्वट्टिया गाहा। व्याख्या - उद्वर्त्तिता = अपनीता सती प्रद्वेषं, यायादिति क्रियाऽध्याहारः छोभगं = आलं वा दद्यादुद्भ्रामको = जार इत्येवं वा ब्रूयात्, 'से' तस्य यद् वधादि कुर्य्यात् । या अवस्थापिता धात्री साऽपि साधुसामर्थ्यमवधार्य भवेन्ममापि विघ्नोऽस्मादिति विषादि साधोर्दद्याद् 'इतरी वि'त्ति या स्थापितेति 'एवमेवे 'ति यथाऽस्याच्याविताया विघ्नः कृत इति गाथार्थः ॥ ४५० ॥
उक्ता क्षीरधात्री । शेषधात्र्यतिदेशमाह
एमेव सेसिगासु वि सुयमाइसु करण
ग- कारणं सगिहे । इडीसु य धाईसु य तहेव उव्वट्टियाण गमो ॥। ४५१ ॥
'एमेव गाहा। व्याख्या- एवमेव यथा क्षीरधात्र्यां तथा शेषकास्वपि सुतमातृषु करण-कारणं स्वगृहे = सुतमातृगृहे साधोर्वाच्यम्, 'ऋद्धी'ति ऋद्धिमतीषु धात्रीषु च तथैव करण-कारणविधिर्वाच्यः, उद्वर्त्तितानां धात्रीपदच्यावितानां सकाशात् प्रद्वेषादयो दोषास्तथैव साधोर्भणनीया इति गाथार्थः ॥ ४५१॥
(टि०) १. उ खं० ॥ २. दुवण्णा जे१, २ ॥ ३. एवं श्रु० जि१ ॥ ४. भर्त्रे जि० ॥ ५. ०न्तनोपस्थापि० ला०॥ ६. य व सेज्जं तु खं० ॥ ७ ०रवणं जे१ ॥ ८. एवमेव ला० ॥ ९ ०मतीसुतधा० ला० जि१ ॥