________________
॥ सवृत्तिपिण्डनियुक्तिः ॥ अयमवरो उ गाहा। व्याख्या- अयमपरस्तु विकल्पो भिक्षाच· प्रविष्टो यतिः श्राद्धिकामधृतियुक्तां दृष्ट्वा पृच्छति- “किं त्वमेवं अधृतिपरा ?" इति। सा प्रत्याह– 'दुक्खसहायविभासा, हियं मे धाइत्तणं अजो “किं कथितेन तस्य यो न करोति दुक्खनिग्रहम्'। साधुर्ब्रवीति- “अहं करोमि"। साऽप्याह- "हृतं मे धात्रीत्वं आर्य्य इति गाथार्थः॥४४५॥
भिक्षादानोद्यतां साधुस्तां वदति- “यावद्धात्रीपदे त्वं न स्थापिता तावदहं भिक्षां न गृह्णामि'. इत्यभिधाय अभिनवधात्र्याः स्वरूपमजानानः किं करोतीत्याह
वय-गंड-थुल्ल-तणुयत्तणेहिं तं पुच्छिउँ अयाणंतो।
तत्थ गओ तस्समक्खं भणाइ तं पासिउं बालं॥४४६॥ वय० गाहा। व्याख्या- वयो-गण्ड-स्थूल-तनुत्वादिविशेषांस्तस्याः पृच्छत्यजानानः, तच्च श्रुत्वा कूटश्लोकान् विरचय्य अभिनवधात्रीयुतं ईश्वरगृहं जगाम, तत्र च गतः ‘तस्समक्षंति परिजनसमक्षं भणति तं दृष्टा बालकमिति गाथार्थः॥४४६॥ किं तद् ? इत्याह
अहुणुट्ठियं व अणवेक्खियं व इणमं कुलं तु मण्णामि।
पुण्णेहिं जहिच्छाए चलई बालेण सूएमो॥४४७॥ अहुणुट्ठियं गाहा। व्याख्या- अधुनोत्थितं वा - साम्प्रतमीश्वरीभूतम्, 'अणवेक्खियं व'त्ति अदृष्टपरिजनस्वरूपं वैतत् कुलं मन्येऽहं पुण्यैर्यदृच्छया वा चलति = वर्त्तते बालेन सूचयाम = जानीम इति गाथार्थः॥४४७॥
एवमुक्ते साधुना, परिजनेनोक्तं- “केन हेतुना ?"। साधुराह- “धात्री न शोभने'ति। “कस्मादि ?"ति चेद् वैद्यकमुद्ग्राहयति- शरीरसाधारणं हि स्तन्यं तच्च वातलादिभेदादनेकविधं, तद्यथा- वातिकं पैत्तिकं चैव श्लेष्मिकं सान्निपातिकं स्तन्यं चतुर्विधं प्रोक्तम्। परीक्षा तस्य कथ्यते
___ कफजमधस्तात् स्तन्यं गच्छति सलिले तु वातिकम्।
तरति विस्तारि पैत्तिकं सान्निपातिकं सर्वलिङ्गयुतम्॥१॥ वातप्रकृतिश्चायं बालो लक्ष्यते, यत उक्तम्
कृशो रूक्षोऽल्पकेशश्चलचित्तोऽनवस्थितः।
बहुवाग् व्योमगः स्वप्ने वातप्रकृतिको नरः॥१॥ वातलस्तन्या च धात्रीत्यतो न सम्यग्योग इति गाथार्थः॥४४७॥ प्रकारान्तरेण धात्रीदोषानाह
थेरी दुब्बलखीरा चिमिढो पेल्लियमुहो अतिथणीए।
तणुई उ मंदखीरा कोप्परथणियाइ सूइमुहो॥४४८॥ थेरी गाहा। व्याख्या- स्थविरा दुर्बलक्षीरा चिपिटः प्रेरितमुखत्वादतिस्तनवत्याः, तन्वी (टि०) १. सूचिता जि०॥ २. "च्छियं जे१॥ ३. मुद्वाहयति ला०॥ ४. बहुधा व्यो० ला० विना॥