________________
॥ धात्रीपिण्डनिरूपणम् ॥
१०५ एकैकाऽपि च द्विविधा, करणविषया कारणविषया चैवेति गाथार्थः॥४४०॥ धात्रीशब्दव्युत्पादनायाह
धारयति धीयते वा धयंति वा तमिइ तेण धाई तु।
जहविभवा आसि पुरा खीरादी पंच धाईओ॥४४१॥ धारयइ गाहा। व्याख्या- धारयति धीयते वा धयन्ति वा तामिति तेन धात्रीत्यभिधीयते। एतास्तु यथाविभवमासन् पुरा क्षीरधात्र्यादयः पञ्च धात्र्य इति गाथार्थः॥४४१॥ साम्प्रतं यथा साधुः क्षीरधात्रीत्वं कारयति तथा दर्शयन्नाह
खीराहारो रोवति मज्झ कयासाय देहि णं पजे।
पच्छा व मज्झ दाहिसि अलं व भुज्जो व एहामि॥४४२॥ खीराहारो गाहा। व्याख्या- पूर्वपरिचिताऽगा- गृहं साधुर्भिक्षार्थं प्रविष्टो रुदन्तं बालकं दृष्टवेदमाह- “क्षीराहारो रोदिति, मह्यं कृताशाय = कृतमनोरथाय देहि", ‘णमिति वाक्यालङ्कारे, भिक्षामिति प्रक्रमः, “एनं च बालकं पायय स्तनं पश्चाद् वा मह्यं दास्यसि अलं वा मम भिक्षया भूयो वाऽहमागमिष्यामीति गाथार्थः॥४४२॥ चाटुकारित्वं कुर्व्वन्निदमाह
मइमं अरोगि दीहाउओ य होइ अविमाणिओ बालो।
दुल्लभगं खु सुयमुहं पजेहि अहं व से देमि॥४४३॥ मइ० गाहा। व्याख्या- मतिमान् अरोगी दीर्घायुश्च भवत्यविमानितो बालो, दुर्लभकं च यतः सुतमुखं अतः पायय एनमित्येवं कारयति। स्वयं करणं त्विदं- अहं वाऽस्य ददामि, क्षीरमिति सम्बध्यत इति गाथार्थः॥४४३॥ अत्र दोषानाह
अहिगरण भद्द पंता कम्मुदय गिलाणए य उड्डाहो।
चडुगारी य अवण्णो निया वण्णो व णं संके॥४४४॥ अहिगरण गाहा। व्याख्या- अधिकरणं- जननी भद्रकत्वाद् अशुद्धभिक्षादानं कुर्यात् प्रान्तत्वाद्वा प्रद्वेषं यायात्, बालकस्य कर्मोदयात् ग्लानत्वे सत्युड्डाहः, चाटुकारीति. अवर्णवादो भवति, ‘णीया व'त्ति निजाः स्वजना अन्यो वाऽन्यं स्त्रीपुरुषसम्बन्धमाशङ्करन्निति गाथार्थः॥४४४॥ प्रकारान्तरेण धात्र्याः धात्रीनियोगं यथा साधुः कारयति तथा दर्शयन्नाह
अयमवरो उ विकप्पो भिक्खायरि सढि अद्धिती पुच्छा।
दुक्खसहायविभासा हियं मे धाइत्तणं अजो॥४४५॥ (टि०) १. ति धावंति तेण खं०॥ २. तदा खं०॥ ३. पोषय जि०॥ ४. च ॥१॥ ५. ०त्यनवमा० जि१॥ ६. नियगा अन्नं व खं०॥ ७. संको खं०॥ (वि०टि०) .. 'धारयति बालकमिति धात्री, यद्वा धीयते भाटकप्रदानेन धीयते = पोष्यते इति धात्री, अथवा 'धयन्ति' पिबन्ति बालकास्तामिति धात्री..... इति मलय०॥ *. अविमानितः = स्तनपायित इत्यर्थः॥